SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पाद: ।। १०५ पूर्वपदस्थान्नाम्न्यगः ॥२।३।६४।। [पूर्वपदस्थात् पूर्वपद ‘ष्ठ गतिनिवृत्तौ' ( ५ ) ष्य । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२१३।९८) स्था । 'निमित्ताऽभावे नैमित्तिकस्याऽप्यभावः' (न्याय० १२९) स्था । पूर्वपदे तिष्ठतीति । 'स्था-पा-ना-त्रः कः' (५/११४२) कप० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः, तस्मात् । [नाम्नि] नामन् सप्तमी ङि । 'ई-डौ वा' (२।१।१०९) अनोऽस्य लुक् । [अगः] न विद्यते ग् यस्याऽसावग्, तस्मात् । [दुणसः] द्रुवन्नासिका यस्याऽसौ । 'अस्थूलाच्च नसः' (७।३।१६१) नासिकास्थाने नसः स्यात् । [सुरणसः] खुरवन्नासिका यस्याऽसौ । 'अस्थूलाच्च नसः' (७।३।१६१) नासिकास्थाने नसः स्यात् । [खरणाः] खरवन्नासिका यस्याऽसौ । 'खर-खुरान्नासिकाया नस्' (७।३।१६०) नासिकास्थाने नस् । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । [खुरणाः] खुरवन्नासिका यस्याऽसौ । ‘खर-खुरान्नासिकाया नस्' (७।३।१६०) नासिकास्थाने नस् । ‘अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । [शूर्पणखा] शूर्पाकारा नखा यस्याः सा । 'आत्' (२।४।१८) आप् । [चन्द्रणखा] चन्द्राकारा नखा यस्याः सा । 'आत्' (२।४।१८) आप् । [वा(णसः वार्धी नासिकायां यस्य स । 'अस्थूलाच्च नसः' (७।३।१६१) नासिकास्थाने नसः । अनेन न०→ण | [पुष्पणन्दी] 'टुनदु समृद्धौ' (३१२) नद् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । पुप्फेण (पुष्पेण) नन्दते(ति)। अच' (५।११४९) अच्प०→अ । 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) डीप्र० ।। [श्रीणन्दी स्त्री] श्रिया नन्दते(ति) । 'अच्' (५।१।४९) अच्प्र०→अ । 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) डीप्र० । [मेषनासिकः] मेषवन्नासिका यस्याऽसौ । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वः । [चर्मनासिकः] चर्मवन्नासिका यस्याऽसौ । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वः । [ऋगयनम] 'अयि गतौ' (७९०) अय् । + अयते । 'अनट्' (५।३।१२४) अनट्प्र० → अन । ऋचामयनम् । 'च-जः क-गम्' (२।१।८६) च० → क० । 'धुटस्तृतीयः' (२।१७६) क० → ग० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [खारपायणः] खर 'पांक रक्षणे' (१०६७) पा । खरान् पातीति । 'आतो डोऽहवा-वा-मः' (५।१७६) डप्र०→अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । खरपस्याऽपत्यम् । 'स्त्रीवहुष्वायनञ्' (६।१।४८) आयनप्र०→आयन । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । [मातृभोगीणः] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भोजनं = भोगः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्चजोः क-गौ घिति' (४।१।१११) ज०→ग० । मातृभोगाय हितः = मातभोगीणः । 'भोगोत्तरपदा-ऽऽत्मभ्यामीनः' (७/११४०) ईनप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [गर्गभगिणी] गर्गभगोऽस्याऽस्तीति । 'अतोऽनेकस्वरात्' (७।२।६) इन् । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । Pऊ शूर्पवन्नखा यस्याऽसौ । P + ईयते अय्यते वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy