SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२०४१) डीप्र० →ई छ।। नसस्य ।।२।३।६५।। [प्रणसः] प्रगता प्रवृद्धा वा नासिका यस्याऽसौ । [निर्णसः] निर्गता नासिका यस्याऽसौ । [प्रणसं मुखम्] प्रगता नासिका यत्र तत् । [निर्णसं मुखम] निर्गता नासिका यत्र तत् । सर्वत्र 'उपसर्गात्' (७।३।१६२) नासिका०→नस० । अनेन न०→ण छ।। निष्प्रा-ऽग्रे-ऽन्तः-खदिर-काया-ऽऽम्र-शरेक्षु-प्लक्ष-पीयूक्षाभ्यो वनस्य ।।२।३।६६।। [निष्प्राऽग्रेऽन्तःखदिरकााऽऽम्रशरेक्षुप्लक्षपीयूक्षाभ्यः] निश्च प्रश्च अग्रे च अन्तश्च खदिरश्च कार्यश्च आमश्च शरश्च इक्षुश्च प्लक्षश्च पीयूक्षा च = निष्प्राऽग्रेऽन्तःखदिरकााऽऽमशरेक्षुप्लक्षपीयूक्षा, ताभ्यः । [निर्वणम्] 5 निर्गतं वनाद् = निर्वणम् । [प्रवणम्] * प्रगतं वनम् । [अग्रेवणम्] वनस्याऽग्रम् । अत एव निर्देशाद् एत्वम् । [अन्तर्वणम्] वनस्याऽन्तः । [खदिरवणम] 'खद हिंसायां च' (२९६) खद् । खदति-हिनस्ति श्लेष्माणमिति खदिरः । मदि-मन्दि-चन्दि-पदि-खदिसहि-वहि-कु-सृभ्य इरः (उणा० ४१२) इरप्र० । खदिराणां वनम् । [कार्यवणम्] कार्थ्यानां वनम् । [आम्रवणम्] आम्राणां वनम् । [शरवणम्] शराणां वनम् । [इक्षुवणम्] इथूणां वनम् । [प्लक्षवणम] प्लक्षाणां वनम् । [पीयूक्षावणम्] पीयूक्षाणां वनम् । सर्वत्र अनेन न० →ण० ।।छ।। द्वि-त्रिस्वरौषधि-वृक्षेभ्यो नवाऽनिरिकादिभ्यः ।।२।३।६७।। [द्वित्रिस्वरौषधिवृक्षेभ्यः द्वौ च त्रयश्च = द्वित्रयः, द्वित्रयः स्वरा येषां ते = द्वित्रिस्वराः, ओषधयश्च वृक्षाश्च = ओषधिवृक्षाः, द्वित्रिस्वराश्च ओषधिवृक्षाश्च = द्वित्रिस्वरौषधिवृक्षाः, तेभ्यः । [नवा] नवा प्रथमा सि । [अनिरिकादिभ्यः] इरिका आदिर्येषां ते = इरिकादयः । न इरिकादयोऽनिरिकादयः । 'अन् स्वरे' (३।२।१२९) अन्, P卐 निःक्रान्तं वनात् । P * प्रकृष्टं वनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy