SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ करिणाम् ] कृ । करणम् । 'पुन्नाम्नि घः' (५|३ | १३०) घ० अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । करो विद्यते येषां ते करिणस्तेषाम् । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन णत्वम् । १०४ [बृंहणम् ] 'वृहु शब्दे च' (५६०) बृह् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । बृह्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन । 'शिड्- हेऽनुस्वारः ' (१।३।४०) अनुस्वारः । अनेन णत्वम् । [नृभिर्नृभिः] नृ । तृतीया भिस् । ' वीप्सायाम्' (७।४।८०) द्वित्वम् । [ चर्मनासिकः ] चर्मवन्नासिका यस्याऽसौ । ' गोश्चान्ते० ' (२।४।९६ ) ह्रस्वः । [ मेषनासिकः ] मेषवन्नासिका यस्याऽसौ । 'गोश्चान्ते० ' (२।४।९६ ) ह्रस्वः । [विरलेन ] ' रमिं क्रीडायाम्' (९८९ ) रम्, विपूर्व० । विरमते । मुरलोरल - विरल केरल - कपिञ्जल - कज्जलेज्जल-कोमलभृमल- सिंहल - काहल-शूकल-पाकल -युगल-भगल- विदल-कुन्तलोत्पलादयः ( उणा० ४७४) डलप्र० अल । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः तेन । [अर्चनम् ] 'अर्च(र्चि)ण् पूजायाम्' (१९५४) अर्च् । अर्च्यते । 'अनट्' (५।३।१२४) अनट्प्र० - अन । [मूर्च्छनम् ] 'मुर्छा मोह- समुच्छ्राययोः' (१२६) मुछ् । मूर्च्छते । 'अनट्' (५।३।१२४) अनट्प्र० (२।१।६३) दीर्घः । अन । 'भ्वादेर्नामिनो० ' अन । [अर्जनम् ] 'अर्ज अर्जने' (१४२) अर्ज् । अर्ज्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन । [झर्झनम् ] 'झर्झत् परिभाषणे' (१३५४) झर्झ । झर्झयते । 'अनट्' (५।३।१२४) अनट्प्र० [किरीटेन] 'कृत् विक्षेपे' (१३३४) कृ । किरतीति । 'तृ-कृ-कम्पि-कृषिभ्यः कीटः' (उणा० १५१) किद् ईटप्र० । 'ॠतां क्डितीर्' (४।४।११६) किर्, तेन । [कर्मटेन] कर्मन् । कर्मणि कुशलः (?) (घटते) । 'तत्र घटते कर्मणष्ठः' (७।१।१३७ ) ठप्र० । [ मृडेन ] 'मृड‍ सुखने' (१५४५) मृड् । मृडनम् (?) ( मर्डनम् ) । 'अच्' (५/१/४९ ) अच्प्र० अ तेन । [दृढेन ] 'दृहु वृद्धी' (५५७) दृह् । 'उदितः स्वरान्नोऽन्तः ' ( ४ । ४ । ९८ ) नोऽन्तः । दृहति स्म । कर्त्तरि क्तप्रत । 'बलि-स्थूले दृढ : ' ( ४।४।६९) इडभावो नलोपश्च दृढनिपातः । [कीर्तनम् ] 'कृतण् संशब्दने' (१६४९) कृत् । 'चुरादिभ्यो० ' ( ३।४।१७) णिच्प्र० । 'कृतः कीर्त्तिः' (४|४|१२२ ) कीर्त्ति । कीर्त्यते । 'णि वेत्त्यास - श्रन्थ- घट्ट वन्देरन:' ( ५|३|१११ ) अनप्र० । 'णेरनिटि' ( ४ | ३ |८३) णिच्लोपः । [नर्देन] 'नर्द शब्दे' (३०२) नद् । नर्द्यते । 'अच्' (५|१|४९ ) अच्प्र० अ । [क्रोधेन] 'क्रुधंच् कोपे' (११८४) क्रुध् । क्रोधनम् । घञ्प्र० अ । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ । [ रशना ] 'अशौटि व्याप्तौ ' (१३१४) अश् । अश्नुते = प्राप्नोति कटीप्रदेशम् । 'अशो रश्चादौ' (उणा० २७० ) अनप्र०रश्चादिः । 'आत्' (२।४।१८) आप् । [ रसना ] 'रसण आस्वादन-स्नेहनयो:' (१९२१) रस् । रस्यते मधुरादिकं वस्तु अनया । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० अन । 'आत्' (२।४।१८) आप् । । छ । । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy