________________
अथ द्वितीयाऽध्यायस्य तृतीयः पादः ॥
[सुगः] सुग् षष्ठी स् ।
[स्यसनि ] स्यश्च सन् च = स्यसन्, तस्मिन् ।
[अभिसोष्यति ] 'पुंगट् अभिषवे' (१२८६) षु । षः सोऽष्ट्यै० ' (२।३।९८) सु, अभिपूर्व० । भविष्यन्ती स्यति । 'नामिनो गुणो० ' ( ४।३।१) गु० ओ । 'नाम्यन्तस्था० ' (२।३।१५) स० ष० ।
[परिसोष्यति] सु, परिपूर्व० । भविष्यन्ती स्यति । शेषं 'अभिसोष्यति' वत् ।
[ अभ्यसोष्यत् ] सु, अभिपूर्व० । क्रियातिपत्तिः स्यत् । 'नामिनो गुणो०' (४।३।१) गु० ओ । 'नाम्यन्तस्था० ' (२।३।१५) स० ष० । 'अड् धातोरादि० ' ( ४।४।२९ ) अडागमः ।
[ पर्योष्यत् ] सु, परिपूर्व० । क्रियातिपत्तिः स्यत् । शेषं 'अभ्यसोष्यत्' वत् ।
[सुसूः ] सु । सोतुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) सू । ‘सन्-यडश्च' (४।१।३) द्विर्वचनम् | ' ह्रस्वः' ( ४|१|३९ ) ह्रस्वत् । 'नाम्यन्तस्था०' (२।३।१५) स० ष० । सुसूषते क्विप् । 'अतः (४।३।८२) अलोपः । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'सो रु: ' (२1१1७२ ) ष० २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः ।
सुगः स्य सनि || २ | ३ |६२ ।।
[सुषाव ] सु । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विर्वचनम् । 'नाम्यन्तस्था० ' (२।३।१५) स० ० । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० औ । ओदौतोऽवाव् (१।२।२४) आव् ।
[ अभिषुणोति ] सु, अभिपूर्व० । वर्त्त० तिव् । 'स्वादेः श्नुः' (३।४।७५ ) श्नुप्र० नु । 'उ-श्नोः' (४।३।२) गु० ओ । 'रवर्णान्नो ण०' (२।३।६३) न० ० ॥छ ।
=
वर्णानो ण एकपदेऽनन्त्यस्याऽल-च-ट-तवर्ग-श- सान्तरे ||२| ३ |६३ ।।
[ रटवर्णात् ] रश्च ष् च ऋवर्णश्च रषृवर्णम्, तस्मात् ।
[ एकपदे] एकं च तत् पदं च = एकपदम् तस्मिन् ।
[ अनन्त्यस्याऽलचटतवर्गशसान्तरे] न अन्त्योऽनन्त्यस्तस्य । चश्च टश्च तश्च = चटताः, चटतानां वर्गः चटतवर्गः, लश्च चटतवर्गश्च शश्च सश्च = लचटतवर्गशसाः, लचटतवर्गशसैरन्तरं व्यवधानं लचटतवर्गशसान्तरं, न लचटतवर्गशसान्तरं
अलचटवर्गशसान्तरम्, तस्मिन् ।
[तीर्णम् ] 'तृ प्लवन-तरणयोः ' (२७) तृ । तीर्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० । 'ऋ- ल्वादेरेषां तो नोऽप्र:' ( ४।२।६८) त० न० । 'ऋतां क्डितीर् ' ( ४|४|११६ ) इर् । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः ई । अनेन
न० ० ।
१०३
=
Jain Education International
=
[ चतुर्णाम् ] चतुर् । षष्ठी आम् । 'संख्यानां र्णाम् ' (१।४।३३) नाम् । अनेन ण० । 'र्हादर्ह स्वरस्याऽनु नवा' (१।३।३१ ) द्वित्वम् ।
[पुष्णाति] 'पुषश् पुष्टौ ' (१५६४) पुष् । वर्त्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० ना । अनेन न०० । [ नृणाम्, नृणाम्] नृ षष्ठी आम् । 'ह्रस्वाऽऽपश्च' (१।४।३२) नाम् । 'नुर्वा' (१।४।४८ ) दीर्घः । [करणम्] 'डुकृंग् करणे' (८८८ ) कृ । क्रियते । 'अनट्' (५|३ | १२४) अनट्प्र० अन । 'नामिनो गुणोक्डिति' (४।३।१) गु० अर् । अनेन णत्वम् ।
For Private Personal Use Only
www.jainelibrary.org