SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । सोऽन्तः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव्' । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [समचिस्करत् सम् ‘डुकंग करणे' (८८८) कृ । 'संपरेः कृगः स्सट्' (४।४।९१) सडागमः । संस्कुर्वन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र०-→इ । 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर् । अद्यतनी दि→त् । 'णिश्रि-द्रु-सु-कमः कर्तरि ङः' (३।४।५८) ङग्र०→अ । 'द्विर्धातुः परोक्षा-२० (४।१।१) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'अघोषे शिटः' (४।१।४५) सलोपः । 'क-डश्च-ञ्' (४।१।४६) क०→च० । 'असमानलोपे सन्वल्लघुनि डे' (४।१।६३) इ । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । [अग्निसात करोति अनग्निमग्नि करोति = अग्नेरायत्तं करोति । 'व्याप्तौ स्सात्' (७१२/१३०) सातप्र० ॥छ।। सिचो यङि ।।२।३।६०।। [सिचो यङि] सिच् षष्ठी ङस् । यङ् सप्तमी ङि । [सेसिच्यते] 'षिचीत् क्षरणे' (१३२१) षिच । 'षः सोऽष्ट्यै०' (२।३।९८) सिच् । भृशं पुनः पुनर्वा सिञ्चति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम०→य । 'सन्-यडश्च' (४१1३) सिच् द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) गु० से । वर्त्त० ते । 'कर्त्तर्यनभ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । _[अभिसेसिच्यते] सिच्, अभिपूर्व० । भृशं पुनः पुनर्वा अभिसिञ्चति । 'व्यञ्जनादेरेक०' (३।४।९) यङ्म०→य । शेषं 'सेसिच्यते' वत् ।। [अभिषिषिक्षति] सिच्, अभिपूर्व० । अभिषेक्तुमिच्छति । 'तुमर्हादिच्छा०' (३।४।२१) सन्प्र० । शेषं (२।३।४०) सूत्रवत् ।।छ।। गतौ सेधः ।।२।३।६१।। [अभिसेधति, अनुसेधति गाः] 'षिधू गत्याम्' (३२० ) षिध् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सिध्, अभिअनुपूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । गो द्वितीया शस् । 'आ अम्-शसोऽता' (१।४।७५) ओ०→आ० । - [अभिसेधयति सिध्, अभिपूर्व० । अभिसेधन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र०→इ । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । वर्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । एदैतोऽयाय' (१।२।२३) अय् । [अनुसेधयति] सिध्, अनुपूर्व० । अनुसेधन्तं प्रयुक्ते । शेषं 'अभिसेधयति' वत् । [अभिसिसेधिषति] सिध्, अभिपूर्व० । अभिसेधितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४१३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । ‘स्ताद्यशितोऽत्रोणादेरिट' ( ।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० ।। [अनुसिसेधिषति] सिध्, अनुपूर्व० । अनुसेधितुमिच्छति । शेषं 'अभिसिसेधिषति' वत् । [प्रतिषेधति] सिध्, प्रतिपूर्व० । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'स्था-सेनि-सेध-सिच-सां द्वित्वेऽपि' (२।३।४०) स० → ष० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । निषेधति] सिध, निपूर्व० । शेषं 'प्रतिषेधति' वत् ।।छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy