SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०० [विष्कम्भकः] विष्कभ्नातीति । 'णक-तृचौ ' ( ५।१।४८) णकप्र० → अक । [विष्कम्भयति] विष्कभ्नन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । छ । । नि-दु: -सु-वेः सम-सूतेः || २|३|५६ || [निर्दुःसुवेः ] निश्च दुश्च सुश्च विश्च तस्मात् । [समसूते:] समश्च सूतिश्च तस्य । [निःषमः ] 'षम वैक्लव्ये' (३८९) षम् । 'पः सोऽष्ट्यै० ' (२।३।९८) सम्, निर्पूर्व० । निःसमतीति । ‘अच्’ (५।१।४९ ) अच्प्र० अ । [दुःषमः ] सम्, दुर्पूर्व० । दुःसमतीति । 'अच्' (५।१।४९) अच्प्र० → अ । [सुषमः] सह मया वर्त्तते इति समः । ' गोश्चान्ते० ' (२।४ । ९६ ) ह्रस्वः । शोभनं समः = सुषमः । [विषमः ] विसमतीति । 'अच्' (५।१।४९ ) अच्प्र० अ । [निःषूतिः ] ' षूङौक् प्राणिगर्भविमोचने ' (११०७ ) षू । ' षः सोऽष्ट्यै- ष्ठिव - ष्वष्कः' (२१३१९८ ) सू, निपूर्व० । निस्सवनम् । 'स्त्रियां क्ति: ' ( ५।३।९१) क्तिप्र० ति । [दुःषूतिः ] दुस्सवनम् । 'स्त्रियां क्तिः ' ( ५। ३ ।९१) क्तिप्रति । [विषूतिः ] विसवनम् । 'स्त्रियां क्ति:' ( ५।३।९१) क्तिप्र० ति । [निःसूतम्] निस्सवनम् । 'क्लीबे क्तः ' ( ५।३।१२३) क्तप्र० । [दुःसूतम्] दुस्सवनम् । ‘क्लीबे क्तः ' ( ५।३।१२३) क्तप्र०→त । [विसूतम्] विसवनम् । 'क्लीबे क्तः ' ( ५।३।१२३) क्तप्र० ।छ। अवः स्वपः ||२।३।५७ ।। श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ अवः ] न विद्यते व् यस्याऽसौ अव्, तस्य । [निःषुषुपतुः ] 'ञिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्टयै- ष्ठिव-ष्वष्कः' (२।३।९८) स्वप्, निर्पूर्व० । परोक्षा अतुस् । ‘स्वपेर्यङ्ङे च’ (४।१।८०) वृत् व० उ० । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन स० ष० । [दुःषुषुपतुः ] स्वप्, दुर्पूर्व० । परोक्षा अतुस् । शेषं 'निःषुषुपतुः' वत् । [सुषुषुपतुः ] स्वप्, सुपूर्व० । परोक्षा अतुस् । शेषं 'निःषुषुपतुः' वत् । [विषुषुपतुः ] स्वप्, विपूर्व० । परोक्षा अतुस् । शेषं 'निःषुषुपतुः' वत् । [निःषप्तः ] निःसुप्यते स्म । [दुःषुप्तः] दुःसुप्यते स्म । [विषुप्तः ] विसुप्यते स्म । 'गत्यर्था - ऽकर्मक- पिब-भुजेः' (५।१।११) क्तप्र० त । अनेन स० ष० । P5 निर्गतो निश्चितो वा समात् । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy