SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पादः ।। परेः ।।२।३५२॥ [परेः] परि पञ्चमी डसि । [परिष्कन्ता, परिस्कन्ता] 'स्कन्दं गति-शोषणयोः' (३१९) स्कन्द, परिपूर्व० । श्वस्तनी ता । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द०→त० । अनेन विकल्पे षत्वम् । परिष्कन्तुम, परिस्कन्तुम] परिस्कन्दनाय । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुमप्र० । [परिष्कण्णः, परिस्कन्नः] परिस्कद्यते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र०→त । 'रदादमूर्छ।' (४।२।६९) दत्त०→न० । अनेन विकल्पे षत्वम् ।।छ।। परिष्कण्णवान्, परिस्कन्नवान] परिस्कन्द(द्य)ते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र०→तवत् । ‘रदादमूर्छ।' (४।२।६९) द-त०→न० । अनेन विकल्पे षत्वम् । नि-र्नेः स्फुर-स्फुलोः ।।२।३।५३।। [निर्नेः] निर् च निश्च = निर्निः, तस्मात् । [स्फुरस्फुलोः] स्फुरश्च स्फुल च = स्फुरस्फुलौ, तयोः । [निःष्फुरति, निःस्फुरति] 'स्फुरत् स्फुरणे' (१४६०) स्फुर्, निपूर्व० । वर्तः तिव् । 'तुदादे: शः' (३।४।८१) शप्र० →अ । ___ [निष्फुरति, निस्फुरति] 'स्फुरत् स्फुरणे' (१४६०) स्फुर्, निपूर्व० । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र० →अ । [निःष्फुलति, निःस्फुलति] ‘स्फुलत् संचये च' (१४६१) स्फुल्, निपूर्व० । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र०→अ । [निष्फुलति, निस्फुलति] 'स्फुलत् संचये च' (१४६१) स्फुल्, निपूर्व० । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र०→अ ॥छ।। वेः ।।२।३।५४।। [:] वि पञ्चमी इसि । [विष्फुरति, विस्फुरति] 'स्फुरत् स्फुरणे' (१४६०) स्फुर्, विपूर्व० । वर्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र० →अ । [विष्फुलति, विस्फुलति] 'स्फुलत् संचये च' (१४६१) स्फुल्, विपूर्व० । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र० → अ छ।। स्कभ्नः ।।२।३१५५।। [स्कभ्नः] स्कभ्ना । षष्ठी डस् । ‘लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [विष्कभ्नाति] स्कम्भू रोधनार्थः (१९८७) स्कम्, विपूर्व० । वर्त्त० तिव् । 'स्तम्भू-स्तम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च' (३।४।६५) श्नाप्र०→ना । अनेन स०→ष० । क्षुभ्नादित्वाण्णत्वाभावः । [विष्कम्भिता] विष्कभ्नातीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र०-तृ । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy