SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ९४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । परिषस्वजे, परिषस्व ] स्वा, परिपूर्व० । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्चनलोपः । ‘स्व र्नवा' (४।३।२२) किद्वद्वा । 'नो व्यअनस्याऽनुदितः' (४।२।४५) नलोपः । [प्रतिषस्वजे, प्रतिषस्वजे] स्वञ्, प्रतिपूर्व० । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विवचनम् ।' 'व्यञ्जनस्या०' (४।१।४४) अनादिव्यञ्जनलोपः । 'स्वओर्नवा' (४।३।२२) किद्वद्वा । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः ।।छ।। परि-नि-वेः सेवः ।।२।३।४६।। [परिनिवेः] परिश्च निश्च विश्च = परिनिवि, तस्मात् । [परिषेवते] 'षेवृङ् सेवने' (८१८) षेव् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सेव्, परिपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन स० → ष० । [परिषिषेविषते] सेव्, परिपूर्व० ! परिषेवितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विर्वचनम् । 'व्यञ्जनस्या०' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । [परिषेषेव्यते] सेव, परिपूर्व० । भृशं पुनः पुनर्वा परिषेवते । 'व्यञ्जनादेरेक०' (३।४।९) यम० । 'सन्-यडश्च' (४।१३) द्विवचनम् । 'व्यञ्जनस्या०' (४।१।४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) ए । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [परिषिषेवे] सेक्, परिपूर्व० । परोक्षा ए । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हस्वः' (४।१।३९) ह्रस्वः । [पर्यषेवत] सेव्, परिपूर्व० । ह्यस्तनी त । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अड् धातोरादि०' (४।४।२९) अडागमः । एवं नि-विपूर्वकः सेव् ज्ञेयम् । [निषिषेविषते] सेव, निपूर्व० । निसे(षे)वितुमिच्छति । 'तुमर्हादिच्छा०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विर्वचनम् । 'व्यञ्जनस्या०' (४।१।४४) अनादिव्यञ्जनलोपः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । ‘स्ताद्यशितो०' (४।४।३२) इट् । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [निषिषेवे] सेव्, निपूर्व० । परोक्षा ए । शेषं 'परिषिषेवे' वत् । [न्यषेवत सेव, निपूर्व० । हस्तनी त । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अड् धातोरादि०' (४।४।२९) अडागमः । [विषिषेविषते] सेव्, विपूर्व० । विसे(षे)वितुमिच्छति । शेषं निषिषेविषते' वत् । [विषिषेवे] सेव, विपूर्व० । परोक्षा ए । शेषं 'परिषिषेवे' वत् । [व्यषेवत] सेव्, विपूर्व० । ह्यस्तनी त । 'कतर्यनद्भ्यः०' (३।४।७१) शव् । 'अड् धातोरादि०' (४।४।२९) अडागमः । प्रतिसेषेव्यते] सेव, प्रतिपूर्व० । भृशं पुनः पुनर्वा प्रतिसेवते । 'व्यञ्जनादेरेक०' (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१।३) द्विर्वचनम् । 'व्यञ्जनस्याऽनादे०' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy