________________
।। अर्हम् ।।
॥ अथ प्रथमाऽध्यायस्य चतुर्थः पादः ॥
अत आ स्यादौ जस-भ्याम्-ये ।।१।४।१।। [अत आ] अत् षष्ठी डस् । ‘सो रुः' (२।१।७२) स० → र० । ‘रोर्यः' (१।३।२६) र० → य० । 'स्वरे वा' (१।३।२४) यलोपः । आ प्रथमा सि । सूत्रत्वात् लोपः ।।
[स्यादर्दी] सि(:) आदिर्यस्याऽसौ स्यादिस्तस्मिन् = स्यादौ, सप्तमी ङि, ‘डिौँ' (१।४।२५) डौ० → औ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[जस्-भ्याम्-ये] जस् च भ्याम् च यश्च = जस्भ्याम्यम्, तस्मिन् ।
[वृक्षाः] वृक्ष । प्रथमा जस् । अनेन अ० → आ० । 'समानानां०' (१।२।१) दीर्घः । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१३५३) विसर्गः ।
[आभ्याम् इदम् । तृतीया भ्याम् । 'आ द्वेरः' (२१११४१) म० → अ० । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । 'अनक्' (२।१।३६) इद० → अ० । अनेन ।
[श्रमणाय] श्रमण । चतुर्थी उ । 'डे-ङस्योर्याऽऽतौ' (१।४।६) डे० → य० । अनेन ।
[बाणजः] 'जसूच् मोक्षणे' (१२२३) जस्, वाणपूर्व० | बाणान् जस्यतीति क्विप् वाणजः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । दीर्घयाब्०' (१।४।४५) सिलोपः । ‘सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । बाणसंबंधि अकारस्य अनेन आत्वं तदा प्राप्नोति यदा स्यादेर्जस् स्यात्, अत्र धातुसत्को जस् विद्यते ॥छ।।
भिस ऐस ।।१।४।२।। [भिस ऐस] भिस् । षष्ठी डस् । ऐस् । प्रथमा सि | 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘सो रुः' (२७७२) स० → र० । 'रोर्यः' (१।३।२६) य० । 'स्वरे वा' (१३।२४) यलोपः ।।
[अतिजरसैः] जरा अतिपूर्व० । जरामतिक्रान्तानि यानि कुलानि तानि = अतिजरांसि, तैः = अतिजरसैः । यो यमाश्रित्य समुत्पद्यते स तस्य न बाधक इति सन्निपातलक्षणो विधिरनित्यः । 'प्रथमोक्तं प्राक्' (३।१।१४८) अतिपूर्व० । 'क्लीबे' (२।४।९७) इस्वत्वं । तृतीया भिस् । अनेन भिस्० → ऐस्० । 'जराया जरस् वा' (२।१।३) जरस् क्रियते ।
. [चैत्रभिस्सा] चैत्रस्य भिस्सा = ओदनः ।
[ओदनभिस्सटा] ओदनस्य भिस्सटा = दग्धिका ।।छ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org