SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ १९९ 'ढस्तड्ढे' (१1३।४२) ढलोपः । नहा-55होर्ध-तौ ।।२।१८५।। [नहाऽऽहोर्धतौ] नहश्च आह् च = नहाहौ, तयोः = नहाहोः, षष्ठी ओस् । धश्च तश्च = धतौ । [नद्धा] ‘णहीच बन्धने' (१२८५) णह् । 'पाठे धात्वादेर्णो नः (२।३।९७) नह । श्वस्तनी ता । अनेन ह० → ध० । 'अधश्चतुर्थात्०' (२।१७९) त० → ध० । 'तृतीयस्तृ०' (११३।४९) ध० → द० । [उपानत उपनाते इति क्विप उपानत् । 'अप्रयोगीत्' (११।३७) क्विप्लोपः । 'गति-कारकस्य नहि-वृति-वृषि-व्यधिरुचि-सहि-तनौ क्वौ' (३२।८५) दीर्घत्वं प० → पा० । परीणत्] परिनाते इति क्विप् परीणत् । 'गति-कारकस्य-नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनौ क्वौ' (३।२८५) दीर्घत्वं रि० → री० । 'पूर्वपदस्थान्नाम्न्यगः' (२।३।६४) न० → ण० । [उपानद्भ्याम्] उपनद्येते इति क्विप् उपानहौ, ताभ्याम् । [उपानत्कल्पः] ईषदपरिसमाप्त उपानद् = उपानत्कल्पः । 'अतमबादेरीषदसमाप्ते कल्पप-देश्यप-देशीयर' (७।३।११) कल्पप्प० । [आत्थ] 'बॅगक व्यक्तायां वाचि' (११२५) बू । वर्त्त० सिव् । 'बूगः पञ्चानां पञ्चाऽऽहश्च' (४।२।११८) परोक्षा थक्-आ० । अनेन ह० → त० । [उपानहौ] उपनहोते इति क्विप् उपानही । [आह] 'बूंगक व्यक्तायां वाचि' (११२५) बू । वर्त० तिव् । 'बूगः पञ्चानां पञ्चाऽऽहश्च' (४२११८) परोक्षा णवआह् । [आहतुः] बू । वर्त्त० तस् । 'बूगः पञ्चानां पञ्चाऽऽहश्च' (४।२।११८) परोक्षा अतुस्- आह् । [आहुः] बू । वर्त० अन्ति । 'बूगः पञ्चानां पञ्चाऽऽहश्च' (४।२।११८) परोक्षा उस्-आह् ।। छ ।। च-जः क-गम् ।।२।१।८६॥ [चजः] चश्च जश्च = चज(ज), तस्य = चजः । [कगम्] कश्च गश्च = कगम् । प्रथमा सि । 'अतः स्यमोऽम्' (११४१५७) अम् । [वक्तुम्] 'वचं भाषणे' (१०९६) वच् । वचनाय → वक्तुम् । “क्रियायां क्रियार्थायां तुम्-णकच भविष्यन्ती' (५।३।१३) तुम्प० । अनेन कत्वम् । [ओदनपक्] ओदनं पचतीति क्विप् । विाकत्वम् वाचो भावः । 'भावे त्व-तल' (७।११५५) त्वप्र० । [त्यक्तुम् 'त्यजं हानौ' (१७२) त्यज् । त्यजनाय = त्यक्तुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । [अर्द्धभाक्] 'भजी सेवायाम्' (८९५) भज्, अर्द्धपूर्व० । अर्द्ध भजते = अर्द्धभाक् । 'भजो विण्' (५1१1१४६) विणप्र० । 'णिति' (४१३५०) उपान्त्यवृद्धिः । ‘अप्रयोगीत्' (११३७) विणलोपः । [स्वप्नक] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्टयै-ष्टिव-ष्वष्कः' (२।३।९८) स्वप् । स्वपितीति । 'तृषिधृषि-स्वपो नजिङ् (५१२८०) नजिय० → नज् । अनेन ज० → ग० । 'विरामे वा' (१३५१) ग० → क० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy