SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ [उखास्रत्, उखास्रद्] भ्रंशूङ् (९५२) - 'संसूङ् अवस्रंसने' (९५३) संस्, उख उखापूर्व० । उखेन स्रस्यते-उखया संस इति क्विप्० । 'नो व्यञ्जनस्याऽनुदितः' (४/२/४५) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । अनेन दत्वं । 'विरामे वा ' (१1३1५१) द० त० । 'अनतो लुप्' (१।४।५९) सिलोपः । [पर्णध्वत्, पर्णध्वद्] ‘ध्वंसूङ् गतौ च' (९५४) ध्वंस्, पर्णपूर्व० । पर्णानि ध्वंसते इति क्विप् । 'नो व्यञ्जनस्याऽनुदितः ' ( ४ । २ । ४५) नलोपः । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । प्रथमा सि । अनेन दत्वं । 'विरामे वा' (१।३।५१) द०→ त० । 'अनतो लुप्' (१।४।५९) सिलोपः । [विद्वद्, विद्वत् कुलम् ] 'विदक् ज्ञाने' (१०९९) विद् । वेत्तीति यत् कुलं तत् । 'वा वेत्तेः क्वसुः' (५।२।२२) क्वसुप्र० → वस् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । [उपसेदिवद्, उपसेदिवत् कुलम् ] 'षद्लुं विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सद्, उपपूर्व० । उपससाद । 'तत्र क्वसु- कानौ तद्वत्' (५१२१२) क्वसुप्र० वस् । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) स० से० । 'घसेकस्वराऽऽतः क्वसोः ' ( ४।४।८२ ) इट् । [स्वनडुद्, स्वनडुत् कुलम्] 'वहीं प्रापणे' (९९६) वह, अनस्पूर्व० । अनो वहति । 'अनसो वहेः क्विप् सश्च डः ' ( उणा० १००६) क्विप्प्र० स०ड० । 'यजादि-वचेः किति' (४।१।७९) वृद् व० उ० 1 अनडुह सुपूर्व० 1 शोभना अनड्वाहो यत्र कुले तत् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । ॥छ । १८५ [उखास्रद्भ्याम् ] उखया संसेते इति उखास्रदौ, ताभ्याम् । [पर्णध्वद्भिः ] पर्णानि ध्वंसन्ते इति पर्णध्वसस्तैः । [विद्वत्सु ] विदन्तीति विद्वांसस्तेषु । [विद्वत्ता ] विदुषो भावः । ' भावे त्व- तल्' (७।१।५५) तल्प्र० [उपसेदिवत्तमः ] बहूनां मध्ये प्रकृष्टः उपसेदिवान् = त । आत् (२।४।१८) आप् । उपसेदिवत्तमः । प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम ऋत्विज्-दिश्-दृश्-स्पृश्-स्रज् - दधृषुष्णिहो गः || २|१|६९॥ [ऋत्विग्दिशदृश्स्पृश्स्रज्दधृषुष्णिहः] ऋत्विज् च दिश् च दृश् च स्पृश् च सज् च दधृषु च उष्णिह् च = ऋत्विग्दिश्दृश्स्पृश्सज्दधृषुष्णिह्, तस्य । [ग] ग प्रथमा सि । 'सो रुः' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [ऋत्विक्, ऋत्विग्] 'यजीं देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज्, ऋतुपूर्व० । ऋतौ यजते, ऋतवे यजते, ऋतु (तु) प्रयोजनो वा यजते । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'यजादि-वचेः किति' (४११।७९) वृद् य० → इ० । प्रथमा सि ! [दिक्, दिग्] 'दिशत् अतिसर्जने' (१३१८) दिश् । दिश्यते इति । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११.४) क्विप्प्र० । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । Jain Education International [दृक्, दृग् ] 'दृशुं प्रेक्षणे' (४९५) दृश् । पश्यति दर्शनं वा दृक् । 'भ्यादिभ्यो वा' (५|३|११५) क्विप्प्र० । ‘अप्रयोगीत्' (१।१।३७) क्विप्लोपः । [अन्यादृक्, अन्यादृग्] ‘दृशुं प्रेक्षणे' (४९५) दृश्, अन्यपूर्व० । अन्य इव दृश्यते । 'त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टक्-सकौ च' (५/१/१५२) क्विप्प्र० । 'अन्य - त्यदादेरा:' ( ३।२।१५२) आ । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy