SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अतितदः] तमतिक्रान्ता (ये) ते । [प्रियतद] प्रियः सो यस्य स = प्रियतद् । [प्रियतदौ] प्रियः सो ययोस्तौ । [प्रियतदः] प्रियः सो येषां ते ।। छ ।। तः सौ सः ।।२।१।४२।।। [तः सौ सः] त् षष्ठी डस् । सि सप्तमी ङि । स प्रथमा सि । 'सो रुः' (२१११७२) २० । [स्यकः] कुत्सितोऽल्पोऽज्ञातः स्यः = स्यकः । 'त्यादि-सर्वाद:०' (७।३।२९) अप० । [परमस्यः] परमश्चासौ स्यश्च = परमस्यः । [सकः] कुत्सितः सः = सकः । 'त्यादि-सर्वादे:०' (७।३।२९) अक्प० । [परमसः] परमश्चासौ सश्च = परमसः । [परमैषः] परमश्चासावेषश्च = परमैषः । [हे परमस!] परमश्चासौ सश्च = परमसस्तस्य संबोधनं हे परमस ! । [हे परमेष!] परमश्चासावेषश्च = परमैषस्तस्य संबोधनं हे परमैष! । [प्रियत्यद] प्रियः स्यो यस्य तत् = प्रियत्यद । [प्रियैतत् पुमान्] प्रिय एषो यस्याऽसौ प्रियैतत् ।। छ ।। अदसो द: सेस्तु डौ ।।२।१।४३।। [अदसो दः सेस्तु डौ] अदस् षष्ठी डस् । द् षष्ठी डस् । सि षष्ठी डस् । तु प्रथमा सि । डौ प्रथमा सि । सूत्रत्वात् लोपः । [असौ] अदस् । प्रथमा सि । अनेन । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [असको कुत्सितोऽल्पोऽज्ञातो वा असौ = असकौ । प्रथमा सि । 'लोकात्' (१९१३) अस अग्रे विश्लेषियइ. । 'आ द्वेरः' (२।१।४१) स० → अ० । 'लुगस्या०' (२।१।११३) अलोपः । अनेन द० → स०, सेस्तु डौ → औ । 'डित्यन्त्यस्वरादेः' (२११११४) अलोपः । [असको स्त्री] कुत्सिता-अल्पा-अज्ञाता वा असौ = असकौ । [अद:] अदस् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । [अमूः] अदस् । प्रथमा जस् । 'आ द्वेरः' (२।१।४१) स० → अ० । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) द० → म० । 'आत्' (२।४।१८) आप् । 'समानानां०' (१४२११) दीर्घः । 'मादुवर्णोऽनु' (२।१।४५) ऊ । 'सो रुः' (२।१।७२) र०। 'रः पदान्ते०' (१।३।५३) विसर्गः । [अत्यदाः] अमुमतिक्रान्तोऽसौ अत्यदाः । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलोपः ।छ।। Jain Education Intemational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy