SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका | [अथो] अथो । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [परमैतम्] परमश्चासावेषश्च = परमैषस्तं = परमैतम् ।। छ ।। इदमः ||२१|३४|| [इदमः] इदम् । षष्ठी डस् । [उद्दिष्टमिदमध्ययनमथो एनदनुजानीत] [अध्ययनम्] 'इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । अधीयतेऽनेनेत्यध्ययनम् । 'करणाऽऽधारे' (५।३।१२९) अनट्प० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० → ए० । 'एदैतोऽयाय' (११२।२३) अय् । [इमकं साधुमावश्यकमध्यापय अथो एनमेव सूत्राणि] [इमकम] कुत्सितोऽल्पोऽज्ञातो वा अयं = अयकं, तं = इमकम् । [एनम] इदम् । 'लोकात्' (१९१३) अम् अग्रे विश्लेषियइ. । 'त्यादि-सर्वादे०' (७।३।२९) अक् । द्वि० अम् । अनेन इदकम् → एनदादेशः । [मत्पुत्रको शीलवन्ताविमको तिष्ठतः] [मत्पुत्रकौ] मदीयौ पुत्रौ = मत्पुत्रौ, मत्पुत्रावेव = मत्पुत्रको । स्वार्थे कप० । [शीलवन्तौ] शीलं विद्यते ययोस्तौ । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । 'मावर्णान्तोपा०' (२।१।९४) म० → व० । [इमकौ] कुत्सिताविमाविमको । 'त्यादि-सर्वादे:०' (७।३।२९) अक् । [अथो परमेमं पश्य] [परमेमम] परमश्वासावयं च = परमायं, तं = परमेमम् । [इदं कुण्डमानयाथो एनं परिवर्त्तय] [परिवर्त्तय] 'वृतूङ वर्त्तने' (९५५) वृत्, परिपूर्व० । परिवर्त्तमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग् । 'लघोरुपान्त्यस्य' (४।३।४) अर् । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) ए । 'एदैतोऽयाय्' (१।२।२३) अय् । ‘अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः ॥ छ । अद् व्यञ्जने ॥२१॥३५॥ [अद्] अद् । प्रथमा सि । दीर्घड्याव्०' (१।४।४५) सिलोपः । [व्यञ्जने] व्यञ्जन । सप्तमी ङि । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए । [इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम] [इमकाभ्याम् कुत्सिताविमाविमको । 'लोकात्' (१1१।३) अम् विश्लेष्य, । 'त्यादि-सर्वादेः०' (७।३।२९) अक् । ताभ्यां = इमकाभ्यां, तृतीया भ्याम् । 'आ द्वेरः' (२।१।४१) म० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'दो मः स्यादौ' (२१११३९) द० → म० । 'अत आ स्यादौ०' (१।४।१) आ । [शक्षकाभ्याम्] 'शिक्षि विद्योपादाने' (८७९) शिक्ष् । शिक्षणं = शिक्षा । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप० । P.' 'अनतो लुप्' (१।४।५९) सिलोपः । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org w
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy