SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ १५७ [चिन्तायाम्] चिन्ता सप्तमी ङि । 'आपो डितां यै-यास्-यास्-याम्' (१।४।१७) याम् । [जनो युष्मान् संदृश्यागतः, जनोऽस्मान् संदृश्यागतः] [जनः] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जन्यते इति जनः । ‘अच्' (५।१।४९) अच्प० । प्रथमा सि । 'सो रुः' (२।१७२) २० । [युष्मान्] युष्मद् । द्वि० शस् । अनेन वस्निषेधः । [संदृश्य] 'दृशं प्रेक्षणे' (४९५) दृश्, संपूर्व० । संदर्शनं पूर्व = संदृश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) क्त्वा → यप् ।। [आगतः] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम्, आड्यूर्व० । आगच्छति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१११) क्तप्र० → त० । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादे-धुटि क्डिति' (४।२।५५) मलोपः ।। [अस्मान्] अस्मद् । द्वि० शस् । अनेन नस्निषेधः । [जनो युवां समीक्ष्यागतः, जन आवां समीक्ष्यागतः] [जनः] जन । प्रथमा सि । 'सो रुः' (२।१७२) र० । [युवाम्] युष्मद् । द्वि० औ । 'द्वित्वे वाम्नौ' (२।१।२२) वाम् प्राप्नोति, अनेन निषेधः । 'मन्तस्य युवा-ऽऽवौ द्वयोः' (२।१।१०) युव० । [समीक्ष्य] 'ईक्षि दर्शने' (८८२) ईक्ष्, संपूर्व० । समीक्षणं पूर्वं = समीक्ष्य । [आवाम् अस्मद् । द्वि० औ । 'द्वित्वे बाम्नी' (२।१।२२) नौ प्राप्नोति, अनेन निषेधः । 'मन्तस्य युवा-ऽऽवौ द्वयोः' (२।१।१०) आ० । [जनस्त्वामपेक्षते, जनो मामपेक्षते] [जनः] जन । प्रथमा सि । 'सो रुः' (२११७२) स० - २० । [त्वाम्] युष्मद् । द्वि० अम् । 'अमा त्वा-मा' (२१११२४) त्वा प्राप्नोति, अनेन निषेधः । 'अमौ मः' (२११११६) म० । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२191११) त्व० । 'युष्मदस्मदोः' (२०१६) द० → आ० । [अपेक्षते] 'ईक्षि दर्शने' (८८२) ईक्ष्, अपपूर्व० । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [माम् अस्मद् । द्वि० अम् । 'अमा त्वा-मा' (२।१।२४) मा प्राप्नोति, अनेन निषेधः । 'अमौ मः' (२।१।१६) . म० । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२191११) म० । 'युष्मदस्मदोः' (२।१।६) द० → आ० । [ज्ञानं युवाभ्यां दीयमानं निरूपयति, ज्ञानमावाभ्यां दीयमानं निरूपयति] [दीयमानं] 'डुदांग दाने' (११३८) दा । दीयते = दीयमानं । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन । 'क्यः शिति' (३।४।७०) क्यप्र० । 'अतो म आने' (४।४।११४) मोऽन्तः । एषामी व्यञ्जनेऽदः' (४।२।९७) आ० → ई० = दी । [निरूपयति] 'रूपण रूपक्रियायाम्' (१८९०) रूप, निपूर्व० । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० → ए० । 'एदैतोऽयाय' (१।२।२३) अय् । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy