SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५६ पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातोद्धरणरज्जवः ||२|| [पान्तु ] 'पांक् रक्षणे' (१०६७) पा । पञ्चमी अन्तु । [व] युष्मद् । द्वि० शस् । 'पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे' ( २।१।२१ ) वसादेशः । [देशनाकाले] देशनायाः कालो = देशनाकालस्तस्मिन् । = जैनेन्द्राः | 'तस्येदम्' (६।३।१६० ) [जैनेन्द्रा] जिनानां = सामान्यकेवलिनां मध्ये इन्द्रो = जिनेन्द्रः, जिनेन्द्रस्य इमे अ । ' वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' (७|४|१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । प्रथमा जस् । 'अवर्ण-भो-भगो ऽघोर्लुगसन्धिः ' (१।३।२२) रलोपः । अण्प्र० [दशनांशवः] दशनानामंशवो = दशनांशवः, प्रथमा जस् । 'जस्येदोत्' (१।४।२२) उ० ओ० । 'ओदौतोऽवाव्’ (१।२।२४) अव् । [भवकूपपतज्जन्तुजातोद्धरणरज्जवः ] भव एव कूपो = भवकूपः, 'पत्लृ गतौ' (९६२) पत् । पततीति पतत् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० अत् । कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । जन्तूनां जातं = जन्तुजातं, पतच्च तद् जन्तुजातं च = पतज्जन्तुजातं, भवकूपे पतज्जन्तुजातं = भवकूपपतज्जन्तुजातं, भवकूपपतज्जन्तुजातस्य समूहस्य उद्धरणं = भवकूपपतज्जन्तुजातोद्धरणं, भवकूपपतज्जन्तुजातोद्धरणे रज्जव इव = भवकूपपतज्जन्तुजातोद्धरणरज्जवः । प्रथमा जस् । ‘जस्येदोत्’ (१।४।२२) ओ० । 'ओदौतोऽवाव्' (१।२।२४) अव् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । पान्तु = रक्षन्तु, के कर्त्तारः ? दशनांशवः, दशनकिरणाः, किं विशिष्टाः, जैनेन्द्राः = तीर्थकरसत्काः, क्व ? देशनाकाले, कान् ? वो युष्मान् पुनः किं विशिष्टाः ? भवकूपपतज्जन्तुजातोद्धरणरज्जवः । देशनाकालि जिनेन्द्रसंबंधी या दशनांशु दशन-किरणं ते तुम्ह कहिं रक्षा करेहुं जिकि सा भवु भणियइ संसारु एउ जु भगत कुपुतीणि जुए त ( ज ) न्तुसमूहुं तीहं तणउं जु उद्धरणु तहिं विषइ रज्जुवरत्राशयः ॥ छ ॥ चा- Sह-ह- वैवयोगे ॥। २।१।२९ ।। [ चाहहवैवयोगे ] चश्च अहश्च हश्च वाश्च एवश्च = चाहहवैवा ( : ), चाहहवैवैर्योगश्चाहहवैवयोगस्तस्मिन् । [ज्ञानं युष्मांश्च रक्षतु, अस्मांश्च रक्षतु ] [ज्ञानं] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । ज्ञायते निर्नी (र्णी)यते नवभावमनेनेति ज्ञानम् । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् । 'समानादमोऽतः ' (१।४।४६ ) अलोपः । [युष्मांश्च] युष्मद् । द्वि० शस् । 'शसो नः' (२।१।१७) न० । 'युष्मदस्मदो: ' (२।११६) द० आ० । अग्रे च अव्ययम् । ‘नोऽप्रशानोऽनुस्वाराऽनुनासिकौ च पूर्वस्याऽधुट्परे' (१।३।८) न० श०, पूर्वमनुस्वारः । अनेन वस्निषेधः । आ० । अग्रे = [अस्मांश्च] अस्मद् । द्वि० शस् । 'शसो नः' (२।१।१७) न० । 'युष्मदस्मदोः ' (२।१।६) द० च अव्ययम् । 'नोऽप्रशानो० ' (१।३।८) न० श०, पूर्वमनुस्वारः । अनेन नस्निषेधः । [दृश्यर्थेः] दृशिना समानोऽर्थो येषां ते Jain Education Intemational [ज्ञानं च शीलं च ते स्वम्, मे स्वम्] एतयोश्चशब्देन युष्मदस्मदोर्योगो न किन्तु ज्ञानशीलयोः । चाहहवैवैरित्येव सिद्धे योगग्रहणं साक्षाद् योगप्रतिपत्त्यर्थम् ॥ छ ॥ दृश्यर्थैश्चिन्तायाम् ।।२।१।३०॥ दृश्यर्थाः, तैः = दृश्यर्थेः, तृतीया भिस् । 'भिस ऐस्' (१।४।२ ) ऐस् । = For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy