SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुंढिका । [त्वया] युष्मद् । तृतीया टा । ‘लोकात्' (१।१।३) अद् अग्रे विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२।१।११) त्वादेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन य० । 'लोकात्' (१।१।३) आ संहिता । [मया] अस्मद् । तृतीया टा । 'लोकात्' (१1१1३) अद् अग्रे विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन' (२।१।११) मादेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन य० । 'लोकात्' (१।१।३) आ संहिता. । [अतित्वया त्वामतिक्रान्तोऽसौ अतित्वम्, तेन । [अतिमया] मामतिक्रान्तोऽसौ अत्यहम्, तेन । [अतियुवया युवामतिक्रान्तोऽसौ अतित्वं, तेन = अतियुवया । तृतीया टा । 'मन्तस्य युवा-55वौ द्वयोः' (२।१1१०) युवादेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन य० । 'लोकात्' (१।१।३) आ संहिता । [अत्यावया] आवामतिक्रान्तोऽसौ अत्यहं, तेन = अत्यावया । तृतीया टा । 'मन्तस्य युवा-ऽऽवौ द्वयोः' (२।१।१०) आवादेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन य० । 'लोकात्' (१।१।३) आ संहिता । [अतियुष्मया] युष्मानतिक्रान्तोऽसौ अतित्वम्, तेन । [अत्यस्मया] अस्मानतिक्रान्तोऽसौ अत्यहम्, तेन । [त्वयि युष्मद् । सप्तमी ङि | 'त्व-मौ प्रत्ययोत्तरपदे०' (२११११) त्वादेशः । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः । अनेन य० । [मयि] अस्मद् । सप्तमी ङि । 'त्व-मौ प्रत्ययोत्तरपदे०' (२।१।११) मादेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन य० । [प्रिययुवयि] प्रिया यूयं यस्याऽसौ प्रियत्वं, तस्मिन् = प्रिययुवयि । अनेन य० । [प्रियावयि प्रिया वयं यस्याऽसौ प्रियाहं, तस्मिन् = प्रियावयि । अनेन य० । [प्रिययुष्मयि] प्रिया यूयं यस्यासौ प्रियत्वम्, तस्मिन् । [प्रियास्मयि प्रिया वयं यस्यासौ प्रियाहम्, तस्मिन् । युवयोः] युष्मद् | षष्ठी ओस् । 'मन्तस्य युवा-5ऽवौ द्वयोः' (२।१।१०) युवादेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन य० । 'सो रुः' (२११७२) र० । 'रः पदान्ते०' (११३५३) विसर्गः । [आवयोः] अस्मद् । षष्ठी ओस् । 'मन्तस्य युवा-5ऽवौ द्वयोः' (२।१1१०) आवादेशः । 'लुगस्यादेत्यपदे' (२१११११३) अलोपः । अनेन य० । 'सो रुः' (२११७२) ० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [अतियुवयोः] युवामतिक्रान्तौ (यौ) तौ = अतियुवां, तयोः । [अत्यावयोः] आवामतिक्रान्तौ (यौ) तौ = अत्यावां, तयोः । [अतित्वयोः] त्वामतिक्रान्तौ (यौ) तौ = अतित्वां, तयोः । [अतिमयोः] मामतिक्रान्तौ (यौ) तौ = अतिमां, तयोः । . [अतियुष्मयोः] युष्मानतिक्रान्तौ (यौ) तो = अतियुवाम्, तयोः ।। [अत्यस्मयोः] अस्मानतिक्रान्तौ (यौ) तो = अत्यावाम्, तयोः । त्वत युष्मद् । पञ्चमी ङसि । 'लोकात्' (१1१३) अद् अग्रे विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे०' (२।१।११) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy