SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । सप्तमी ङि । 'अवर्णस्ये०' (१।२।६) ए. । [राः] 'रांक दाने' (१०६९) रा । राति द्रव्यमिति रै । 'राते:' (उणा० ८६६) डिद् ऐप्र० । 'डित्यन्त्यस्वरादे:' (२।१।११४) आलोपः । प्रथमा सि । अनेन आ । ‘सो रुः' (२।१।७२) र० । 'र: पदान्ते०' (१।३५३) विसर्गः । [अतिराः] रायमतिक्रान्तोऽसौ । [रासु] रै । सप्तमी सुप् । अनेन रा । [अतिराभ्यां कुलाभ्याम्] रायमतिक्रान्ते ये कुले ते = अतिरिणी, ताभ्याम् । ‘क्लीवे' (२।४।९७) ह्रस्वः । अनेन आ । [अतिरासु कुलेषु] रायमतिक्रान्तानि यानि कुलानि तानि = अतिरीणि, तेषु = अतिरासु । अनेन आ । [रायः] रै । प्रथमा जस् । ‘एदैतोऽयाय' (१।२।२३) आय् । 'लोकात्' (१।१३) अ संहिता । 'सो रुः' (२।१।७२) र० । 'रः पदान्ते०' (११३१५३) विसर्गः । [रैसूत्रम्] रायः सूत्रम् । [रेभयम्] रायो भयम् ॥ छ ।। युष्मदस्मदोः ।।२।१६।। [युष्मदस्मदोः] युष्मद्-अस्मद् ।' युष्मच्च अस्मच्च = युष्मदस्मदौ, तयोः = युष्मदस्मदोः, षष्ठी ओस् । [त्वाम] युष्मद् । द्वितीया अम् । 'लोकात्' (१1१।३) अद् अग्रे विश्लेषियइ । 'अमौ मः' (२।११६) अम् → म० । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२।१।११) युष्म् → त्वाऽऽदेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन द० → आ० । 'समानानां०' (१।२।१) दीर्घः । [माम्] अस्मद् । द्वितीया अम् । 'लोकात्' (१।१।३) अद् अग्रे विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२।१।११) अस्म् → माऽऽदेशः । ‘अमौ मः' (२।१।१६) अम् → म० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन द० → आ० । 'समानानां०' (१।२।१) दीर्घः । [अतित्वाम] युष्मद् अतिपूर्व० । त्वामतिक्रान्तोऽसौ अतित्वं, तं = अतित्वाम् । 'लोकात्' (१1१1३) अद् अग्रे विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२।१।११) त्वादेशः । 'अमौ मः' (२।१।१६) अम्→म० । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । अनेन द० → आ० । 'समानानां०' (११२।१) दीर्घः । [अतिमाम अस्मद् अतिपूर्व० । मामतिक्रान्तोऽसौ अत्यहं, तं = अतिमाम् । द्वितीया अम् । 'लोकात्' (१।१।३) अद् अग्रे विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२।१।११) मादेशः । अमौ मः' (२।१।१६) म० । 'लुगस्यादेत्यपदे' (२।१1११३) अलोपः । अनेन द० → आ० । 'समानानां०' (११२११) दीर्घः । [अतियुवाम्] युवामतिक्रान्तौ (यौ) तौ = अतियुवां । प्रथमा-द्वितीया औ । 'लोकात्' (१।१।३) अद् अग्रे विश्लेषियइ. । 'मन्तस्य युवा-55वौ द्वयोः' (२१1१०) युवादेशः । 'अमौ मः' (२१११६) औ० → म० । अनेन आ. । P. रायमतिक्रान्ता ये ते = अतिरायी, ताभ्यां = अतिराभ्यां । तृतीया भ्याम् । अनेन रा. । कुल । तृतीया भ्याम् । अत आः स्यादौ०' (१।४।१) अ० → आ० । P.+युष्मच्च अस्मच्च = युष्मदस्मदी, तयोः = युष्मदस्मदोः, षष्ठी ओस् । 'लोकात्' (१1१३) ओ संहिता । 'सो रुः' (२११७२) र० । 'र: पदान्ते०' (१।३।५३) विसर्गः । Jain Education Intemational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy