SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ [प्रियतिसृणी] प्रियास्तिस्रोऽनयोः कुलयोस्ते । प्रथमा औ । 'औरी ' (१।४।५६ ) ई० । 'अनाम्स्वरे नोऽन्तः' ( १ । ४ । ६४) नोऽन्तः । [प्रियतिसृणि] प्रियास्तिस्रो येषु कुलेषु तानि । प्रथमा जस् । 'नपुंसकस्य शिः ' (१181५५) शि० इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । नि दीर्घः' (१।४।८५) दीर्घः । [प्रियचतसृणी] प्रियाश्चतस्रोऽनयोः कुलयोस्ते । प्रथमा औ । 'औरी : ' (१।४।५६ ) ई० । 'अनाम्स्वरे नोऽन्तः ' (१।४।६४) नोऽन्तः । १३७ [प्रियचतसृणि] प्रियाश्चतस्रो येषु कुलेषु तानि । प्रथमा जस् । 'नपुंसकस्य शि: ' (१।४।५५) शि० इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । क० । परतः स्त्री [प्रियत्रिकः ] प्रियास्तिस्रो यस्य पुरुषस्य स = प्रियत्रिकः । शेषाद्वा' (७।३।१७५) कच्प्र० पुम्वत् ० ' ( ३।२।४९) पुंवद्भावः । प्रथमा सि । सो रुः' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [प्रियचतुष्कः ] प्रियाश्चत्वारो ( चतसो) यस्याऽसौ प्रियचतुष्कः । शेषाद्वा' (७।३।१७५ ) कच्प्र० ‘निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) २० क० । ष० । [प्रियत्रि कुलम् ] प्रियास्तिस्रो यत्र कुले तत् । [प्रियचतुष्कुलम् ] प्रियाश्चतस्रो यत्र कुले तत् । [प्रियत्रिः ] प्रियास्त्रयस्त्रीणि वा यस्याः सा । [प्रियत्री ] प्रियास्त्रयस्त्रीणि वा ययोस्ते ( तौ ) । [प्रियत्रयः ] प्रियास्त्रयस्त्रीणि वा येषां ते । [प्रियचत्वाः] प्रियाश्चत्वारश्चत्वारि वा यस्याः सा । [प्रियचत्वारौ] प्रियाश्चत्वारश्चत्वारि वा ययोस्ती । [प्रियचत्वारः] प्रियाश्चत्वारश्चत्वारि वा येषां ते ॥ छ ॥ ऋतो रः स्वरेऽनि ॥ २१२ ॥ [ ऋतो रः स्वरेऽनि] ऋत् षष्ठी डस् । र प्रथमा सि । 'सो रु: ' (२।१।७२) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । स्वर सप्तमी ङि । 'अवर्णस्ये० ' (१।२।६) ए. । न न् = अन् । नञत्' ( ३।२।१२५ ) न० अ० तस्मिन् = अनि । [तिस्रः ] त्रि । प्रथमा जस् । 'त्रि- चतुरस्तिसृ- चतसृ स्यादौ' (२1919) तिसृ आदेशः । अनेन रत्वं । 'सो रु ः ' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३ ) विसर्गः । [ चतस्रस्तिष्ठन्ति पश्य वा ] चतुर् । प्रथमा जस्- द्वि० शस् । ' त्रि- चतुरस्तिसृ - चतसृ स्यादौ' (२1919) चतसृ आदेश: । अनेन रत्वं । 'सो रु' (२।१।७२ ) २० । 'च-ट-ते सद्वितीये' (१।३।७ ) र० स० । [प्रियतिस्रौ ] प्रियास्तिसो ययोस्तौ । प्रथमा औ । 'परतः स्त्री पुम्वत् ० ' ( ३।२।४९) पुंवद्भावः । ' त्रि- चतुरस्तिसृ- चतसृ स्यादौ' (२1919 ) तिसृ आदेशः । अनेन रत्वं भवति । [प्रियतिस्त्र आगतं स्वं वा ] प्रियास्तिस्रो यस्याऽसौ प्रियतिसा, तस्मात् तस्य वा । [प्रियचतत्र आगतं स्वं वा ] प्रियाश्चतसो यस्याऽसौ प्रियचतसा, तस्मात् तस्य वा । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy