SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ।। अर्हम् ।। ॥ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ त्रिचतुरस्ति- चतसृ स्यादौ || २|१|१|| [त्रिचतुरस्तिसृचतसृ] त्रि- चतुर् । त्रयश्च चत्वारश्च = त्रिचतुर् तस्य । तिसृ चतसृ । तिसा च चतसा च = तिसृचतसृ । प्रथमा सि । सूत्रत्वाल्लोपः । [स्यादौ] सि-आदि । सिरादिर्यस्याऽसौ स्यादिस्तस्मिन् ‘डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । = स्यादौ, सप्तमी ङि, ङिड' (१।४।२५) डौ० औ० । [तिस्रस्तिष्ठन्ति पश्य वा ] त्रि । प्रथमा जस्- द्वि० शस् । अनेन तिसृ आदेशः । 'ऋतो रः स्वरेऽनि' (२।१।२) रत्वं । 'सो रुः ' (२।१।७२) र० । 'च-ट-ते सद्वितीये' (१।३।७ ) र० स० । [ चतस्रस्तिष्ठन्ति पश्य वा ] चतुर् । प्रथमा जस् द्वि० शस् । अनेन चतसृ आदेश: । 'ऋतो रः स्वरेऽनि ' (२1१।२) रत्वं । 'सो रु: ' (२।१।७२ ) २० । 'च-ट-ते सद्वितीये' (१।३।७ ) २०स० । [तिसृषु ] त्रि । सप्तमी सुप् । अनेन तिसृ आदेश: । 'नाम्यन्तस्था० ' (२।३।१५) स०प० । [ चतसृषु ] चतुर् । सप्तमी सुप् । अनेन चतसृ आदेशः । 'नाम्यन्तस्था०' (२।३।१५) स० ष० । [प्रियतिसा पुरुषः ] प्रियास्तिस्रो यस्य सः । प्रथमा सि । 'परतः स्त्री पुम्वत् ० ' ( ३।२।४९) पुंवद्भावः । अनेन तिसृ आदेशः । ‘ऋदुशनस्-पुरुदंशो० ' (१।४।७०) सि० आ० । ‘डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः । डा० [प्रियतिस्रौ ] प्रियास्तिस्त्रो ययोस्ती । [प्रियतिस्रः ] प्रियास्तिस्रो येषां ते । [प्रियचतसा] प्रियाश्चतसो यस्याऽसौ । [प्रियचतस्रौ] प्रियाश्चतसो ययोस्तौ । [प्रियचतस्रः ] प्रियाश्चतसो येषां ते । Jain Education International [प्रियति कुलम् ] प्रियास्तिस्रो यस्य कुलस्य तत् । प्रथमा सि । 'परतः स्त्री पुम्वत् ० ' ( ३।२१४९) पुंवद्भावः । अनेन तिसृ आदेशः । 'अनतो लुप्' (१।४।५९) सिलोपः । कुल । प्रथमा सि । 'अतः स्यमो ऽम् ' (१।४।५७) अम् । 'समानादमोऽतः ' (१।४।४६ ) अलोपः । P. 5 ‘अनतो लुप्' (१।४।५९) सिलोपः । P. + आदि । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy