SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ [हे] ब्रह्मबन्धु!] बह्या बन्धुर्यस्याः सा ब्रह्मवन्धूः । 'उतोऽप्राणिन० (२१४१७३) ऊङ् । तस्याः संबोधनं हे बहाबन्धु ।। [हे करभोरु!] करभस्येव ऊरू यस्याः सा करभो । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ्' (२।४।७३) ऊप्र० → ऊ 'समानानां०' (१।२1१) दीर्घः । तस्याः संबोधनं हे करभोरु ! । [हे धश्रु] अश्रू 'नारी-सखी-पगु-ध । (२१४१७६) ऊप० । सूत्रकार्यम् । [हे] बधु!] वधू । आमन्त्र्ये' (२।२।३२) सि । आमन्त्रणार्थी हे प्राग् । अनेन । [हे] वर्षाभु!] 'भू सत्तायाम् (१) भू । वर्षासु भवतीति वर्षाभू । 'क्विप्' (५।१।१४८) क्विप्प्र० । तस्य संबोधनं हे वर्षाभु ! | 'आमन्त्र्ये' (२।२।३२) सि । अनेन । [[हे अतिलक्ष्मि ! ] लक्ष्मीमतिक्रान्ता या सा = अतिलक्ष्मीः, तस्याः संबोधनं हे अतिलक्ष्मि ! | [हे] अम्ब!] अम्ब । 'आत्' (२१४११८) आप् । 'समानानां०' (१।२1१) दीर्घ । 'आमन्त्र्ये' (२।२।३२) सि । हे प्राग् । अनेन । [हे अक्कु !] अक्क । 'आत्' (२।४।१८) आप् । 'समानानां०' (१।२1१) दीर्घः । 'आमन्त्र्ये' (२।२।३२) सि । हे प्राग् । अनेन । [ हे परमाम्ब ! ] परमा चासौ अम्बा च = परमाम्बा, तस्याः संबोधनम् । [ हे प्रियाम्ब ! ] प्रिया अम्बा यस्याः सा = प्रियाम्वा तस्याः संबोधनम् । 999 [हे वातप्रमीः ! ] वात अग्रे 'मांङ्क मानशब्दयोः ' (११३७) मा । वातं प्रमिमीते = वातप्रमीः । 'बातात् प्रमः कित्' (उणा० ७१३) किद् ईप्र० । 'इडेत् - पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । तस्याः संबोधनम् । [हे हुहूः ! ] हूहू । 'आमन्त्र्ये' (२।२।३२) सि । सो रुः' (२/१/७२) स०२० । रः पदान्ते० ' (१।३।५३) विसर्गः । अनेन न । [हे] ग्रामणीः ! ] ग्रामं नयतीति ग्रामणीः । क्विप्' (५1१1१४८) क्चिप्र० । 'ग्रामाऽग्रान्नियः' (२।३।७१ ) न० ण० । तस्य संबोधनं हे ग्रामणीः ।। [ खलपूर्वधूटि!] खलं पुनातीति खलपूः । क्विप्' (५।१।१४८) क्विप्प्र० । तस्य संबोधनं हे खलपूः ! । । = । [हे सुभु !] सुघु । शोभनं भु भ्रमणं यस्याः सा । उतोऽप्राणिनश्चाऽयु-रज्ज्यादिभ्य ऊङ् (२।४।७३) ऊ० । तस्याः संबोधनं हे सुभु ।। 1 [हे भीरु ! ] भीरु । 'उतोऽप्राणि०' (२।४।७३) ऊप्र० । तस्याः संबोधनं हे भीरु ! 'आमन्त्र्ये (२।२।३२) सि । अनेन सि सउं ह्रस्वः । [ हे अम्बाडे !] अम्बाड । 'आत्' (२।४।१८) आप् । 'समानानां०' (१।२।१) दीर्घः । 'आमन्त्र्ये' (२।२।३२) सि । हे प्राग् । 'एदापः' (१।४।४२) ए. । [हे मातः ! ] मातृ । 'आमन्त्र्ये' (२।२।३२) सि । हे प्राग् । 'ह्रस्वस्य गुण:' ( १/४/४१ ) अर् । 'रः पदान्ते० ' (१|३|५३) विसर्गः ॥ छ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy