SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [परमषण्णाम्] परमाश्च ते षट् च = परमषट्, तेषां, षष्ठी आम् । अनेन नाम् । 'धुटस्तृतीयः' (२११७६) ष० → ड० । 'प्रत्यये च' (१।३।२) ड० → ण । 'तवर्गस्य०' (१।३।६०) न० → ण० । [परमपञ्चानाम] परमाश्च ते पश च = परमपञ्च, तेषां, षष्ठी आम् । अनेन नाम् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । ‘दी| नाम्यतिसृ-चतसृ-प्रः' (१।४।४७) दीर्घः । [प्रियचतुराम] प्रियाश्चत्वारो येषां ते = प्रियचत्वारस्तेषाम् । [प्रियषषाम्] प्रियाः षड् येषां ते = प्रियषट्, तेषाम् । [प्रियपञ्जाम] प्रियाः पञ्च येषां ते = प्रियपञ्चनस्तेषाम् । [परमाष्टानाम] परमाश्च ते अष्टौ च == परमाष्टौ, तेषां, षष्ठी आम् । अनेन नाम् । वाष्टन आः स्यादौ' (१।४।५२) न० → आ० ।।छ।। त्रेस्त्रयः ।।१।४।३४।। [स्त्रयः] त्रि । षष्ठी डस् । 'डित्यदिति' (१।४।२३) ए. । 'एदोद्भ्यां ' (१।४।३५) र० । त्रय । प्रथमा सि । 'सो रुः' (२११७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [त्रयाणाम्] त्रि | षष्ठी आम् । अनेन त्रि० →त्रय आदेशः । 'हस्वाऽऽपश्च' (१।४।३२) नाम् । 'दी? नाम्यतिसृचतसृ-प्रः' (१।४।४७) दीर्घः । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण० । [परमत्रयाणाम] परम-त्रि । परमाश्च ते त्रयश्च = परमत्रयस्तेषां = परमत्रयाणां, षष्ठी आम् । अनेन त्रि० → त्रय आदेशः । 'हूस्वाऽऽपश्च' (१।४।३२) नाम् । 'दी? नाम्यतिसृ-चतसृ-प्रः' (१।४।४७) दीर्घः । '-वर्णान्नो ण०' (२।३।६३) न० → ण० । [अतित्रीणाम त्रयमतिक्रान्ता ये ते = अतित्रयस्तेषाम् । [प्रियत्रीणाम] प्रियास्त्रयो येषां ते = प्रियत्रयस्तेषाम् ।।छ।। एदोद्भ्यां सि-ङसो रः ।।१।४।३५।। [एदोद्भ्याम्] एत्-ओत् । एच्च ओच्च = एदोतो, ताभ्यां = एदोद्भ्यां, पञ्चमी भ्याम् । 'धुटस्तृतीयः' (२।१।७६) त० → द० । [ङसि-ङसोः] ङसि-ङस् । ङसिश्च ङस् च = इसिङसौ, तयोः = ङसिङसोः, षष्ठी ओस् । [] र प्रथमा सि । 'सो रुः' (२१७२) र० । 'रः पदान्ते०' (१३५३) विसर्गः । मुनेः] मुनि । पञ्चमी उसि । 'डित्यदिति' (१।४।२३) इ० → ए० । अनेन डसि० → र० । 'रः पदान्ते०' (१३५३) विसर्गः । [मुनेः] मुनि । षष्ठी डस् । 'डित्यदिति' (१।४।२३) इ० → ए० । अनेन ङस् → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । ___ [साधोः] साधु । पञ्चमी उसि । 'ङित्यदिति' (१।४।२३) उ० → ओ० । अनेन ङसि → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । - [साधोः] साधु । षष्ठी ङस् । 'डित्यदिति' (१।४।२३) उ० → ओ० । अनेन ङस् → र० । 'रः पदान्ते०' Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy