________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । अम् । 'समानादमोतः' (१।४।४६) अमोऽकारलोपः । शब्दानामनुशासनं = शब्दानुशासनम् ।
[आचार्य] 'चर भक्षणे च' (४१०) चर्, आङपूर्वकम् । आचर्यते = सेव्यते विनयार्थं विद्याग्रहणार्थं वा शिष्यैः इति आचार्यः । 'वर्ण व्यअनाद् घ्यण' (५/११७) घ्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः = चार् ।
[हेमचन्द्रेण] 'हिंट गति-वृद्धयोः' (१२९५) हि । हिनोति = गमयति स्वावतस्य वृद्धिमिति हेमः । 'क्षु-हिभ्यां वा' (उणादि- ३४१) मप्र० । 'नामिनो गुणोऽक्ङिति' (४१३१) गुणः ए । 'चदु दीप्त्यालादयोः' (३१३) चद् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः = चन्द् । चन्दति = आलादयति जगज्जननयनमनांसीति चन्द्रः । 'भी-वृधि-रुधि-कन्य०' (उणादि-३८७) रप० । हेम इव कान्तिमत्त्वाद् हेमः । चन्द्र इव आह्लादकत्वात् चन्द्र: । हेमश्चासौ चन्द्रश्च = हेमचन्द्रः, आचार्यश्चासौ हेमचन्द्रश्च = आचार्यहेमचन्द्रः, तेन, तृतीयैक० टा → आ । 'टा-ङसोरिन-स्यौ' (१।४।५) आ → इनादेशः । अवर्णस्येवर्णादिनैदोदरल' (१।२।६) अकारस्य इकारेण सह एत्वम् । 'र-घृवर्णान्नो ण०' (२।३।६३) नस्य णत्वम् ।
[स्मृत्वा] ‘स्मृ चिन्तायाम्' (१८) स्मृ । स्मरणं पूर्वं = स्मृत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । प्रथमैक० सि । 'अव्ययस्य' (३।२७) सिलोपः ।
[किञ्चित्] टुक्षु-रु-'कुंक शब्दे' (१०८६) कु । कौति प्रश्नाद्यर्थमिति किम् । 'कोर्डिम्' (उणादि-९३९) डिद इमप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) उकारलोपः । ‘लोकात्' (११३) संहिता । किम् अग्रे 'चिंग्ट चयने' (१२९०) चि । किमपि अल्पं चिनोतीति किश्चित् । 'क्विप्' (५।१।१४८) क्विप्प० । 'इस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । ‘अप्रयोगीत्' (११३७) विप्लोपः । “क्रियाविशेषणात्' (२।२।४१) अम् । 'अनतो लुप्' (१।४।५९) अम्लोपः ।
[प्रकाश्यते] 'काशृङ दीप्तौ' (८३०) काश, प्रपूर्वकम् । प्रकाशमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । ‘णेरनिटि' (४।३।८३) णिगलोपः । प्रकाश्यते = प्रकटीक्रियते = विवियते इत्यर्थः ।
किं तत् ? उक्तकथ्यतापन्नं शब्दानुशासनं शव्दशास्त्रम् । किं विशिष्टं ? श्रेयः = प्रशस्यतरं कल्याणकारि छो । केन का ? आचार्यहेमचन्द्रेण । किं कृत्वा ? स्मृत्वा = सूत्ररूपतया कृत्वा । कथम् ? किञ्चित् = स्तोकमात्रम् । पुनः किं कृत्वा ? प्रणम्य = नमस्कृत्य । किम् ? परमात्मानम्, परमदैवतं परमात्मा भणियइ । परमदेवतासु प्रणमिउ = नमस्करिउं । आचार्यि हेमचन्द्रि श्रेय = प्रशस्यतरु अथवा कल्याणकारियउं शब्दानुशासनु भणियइ = व्याकरणुस्सरिऊ करिऊ । किञ्चित् = स्तोकमात्रु ।। प्रकाश्ययइ = प्रकटु कीजइ = विवरियइ ।। छ ।।
अर्हम् ।।१।१।१।। [अर्हम] ‘अर्ह पूजायाम्' (५६५) अर्ह । अर्हति शक्रादिकृतां पूजामित्यहम् । लिहादिभ्यः' (५।१५०) अच्प्र० । 'पृषोदरादयः' (३।२।१५५) अहमिति निपातः ।। छ ।।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
www.amele