________________
३३४
कुन्दकुन्दविरचितः
[अ० ३, गा० ७४अथ मोक्षतत्त्वसाधनतत्त्वं सर्वमनोरथस्थानवेनाभिनन्दयति
सुद्धस्स य सामण्णं भणियं सुद्धस्स दंसणं णाणं । सुद्धस्स य णिव्वाणं सो चिय सिद्धो णमो तस्स ॥७४ ॥ शुद्धस्य च श्रामण्यं भणितं शुद्धस्य दर्शनं ज्ञानम् ।।
शुद्धस्य च निर्वाणं स एव सिद्धो नमस्तस्मै ॥ ७४ ॥ यत्तावत्सम्यग्दर्शनज्ञानचारित्रयोगपद्यप्रवृत्तैकाग्र्यलक्षणं साक्षान्मोक्षमार्गभूतं श्रामण्यं तच्च शुद्धस्यैव । यच्च समस्तभूतभवद्भाविव्यतिरेककरम्बितानन्तवस्त्वन्वयात्मकविश्वसामान्यविशेषप्रत्यक्षप्रतिभासात्मकं दर्शनं ज्ञानं च तत् शुद्धस्यैव । यच्च निःप्रतिघविजृम्भितसहजज्ञानानन्दमुद्रितदिव्यखभा निर्वाणं तत् शुद्धस्यैव । यश्च टङ्कोत्कीर्णपरमानन्दावस्थासु स्थितात्मस्वभावोपलम्भगम्भीरो भगवान् सिद्धः स शुद्ध एव । अलं वाग्विस्तारण, सर्वमनोरथस्थानस्य मोक्षतत्त्वसाधनतत्त्वस्य शुद्धस्य परस्परमङ्गाङ्गिभावपरिणतभाव्यभावकभावतात्पत्यस्तमितस्वकिम् । सामण्णं सम्यग्दर्शनज्ञानचारित्रैकाग्र्यशत्रुमित्रादिसमभावपरिणतिरूपं साक्षान्मोक्षकारणं यच्छ्रामण्यम् । तत्तावत्कस्य । सुद्धस्स य शुद्धस्य च शुद्धोपयोगिन एव सुद्धस्स देसणं णाणं त्रैलोक्योदरविवरवर्तित्रिकालविषयसमस्तवस्तुगतानन्तधर्मेकसमयसामान्यविशेषपरिच्छित्तिसमर्थ दर्शनज्ञानद्वयं तच्छुद्धस्यैव सुद्धस्स य णियाणं अव्याबाधानन्तसुखादिगुणाधारभूतं पराधीनरहितत्वेन स्वायत्तं यन्निर्वाणं तच्छुद्धस्यैव सो चिय सिद्धो यो लौकिकमायाञ्जनरसदिग्विजयमन्त्रयन्त्रादिसिद्धविलक्षणस्वशुद्धात्मोपलम्भलागटोत्कीर्णज्ञायकैकस्वभावो ज्ञानावरणाद्यष्टविधकर्मरहितत्वेन सम्यक्त्वाद्यष्टगुणान्तर्भूतानन्तगुणसहितसिद्धो भगवान् स चैव शुद्धः, एवं णमो तस्स निर्दोषिनिजपरमात्मन्याराध्यराधकसंबन्धलक्षगो भावनमस्कारोऽस्तु तस्यैव । अत्रैतदुक्तं भवति-अस्य मोक्षकारणभूतशुद्धोपयोगस्य मध्ये सर्वेष्टमनोरथा लभ्यन्त इति मत्वा है, यह दिखलाते हैं-[शुद्धस्य ] जो परम वीतरागभावको प्राप्त हुआ मोक्षका साधक परम योगीश्वर है, उसके [श्रामण्यं] सम्यग्दर्शन, ज्ञान, चारित्रकी एकताकर एकाग्रता लिये हुए साक्षात् मोक्षमार्गरूप यतिपद [ भणितं] कहा है, [च] और [शुद्धस्य ] उसी शुद्धोपयोगी मोक्षसाधक मुनीश्वरके [दर्शनं ज्ञानं ] अतीत, अनागत, वर्तमान, अनन्त पर्याय सहित सकल पदार्थोंको सामान्य विशेषतासे देखना जानना भी कहा है, [च तथा [शुद्धस्य] उसी शुद्धोपयोगी मोज्ञमार्गी मुनीश्वरके [निर्वाणं] निरावरण अनन्त ज्ञान, दर्शन, सुख, वीर्य, सहित परम निर्मल मोक्ष-अवस्था भी है, [स एव] वही शुद्ध मोक्ष-साधन [सिद्धः] टंकोत्कीर्ण परम आनन्द अवस्थामें थिररूप निरावरण दशाको प्राप्त परब्रह्मरूप साक्षात् सिद्ध है, [तस्मै ] ऐसे सर्वमनोरथके ठिकाने मोक्ष-साधन शुद्धोपयोगीको [नमः] हमारा भावनमस्कार होवे । भावार्थ-बहुत विस्तारसे कहाँतक कहा जाय, यह जो मोक्षतत्त्वका साधन शुद्धोपयोगी महामुनि है, वह सब मनोवाञ्छित कार्योका स्थान है, क्योंकि इस दशाके होनेपर सब मनोरथ पूर्ण होते हैं, इससे यह मोक्ष-मार्ग है, इसीके अनंत ज्ञान दर्शन हैं, इसीको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org