________________
७५ ]
परविभागो भावनमस्कारोऽस्तु ॥ ७४ ॥
अथ शिष्यजनं शास्त्रफलेन योजयन् शास्त्रं समापयतिबुज्झदि सासणमेयं सागारणगारचरियया जुत्तो । जो सो पवयणसारं लहुणा कालेण पप्पादि ॥ ७५ ॥ बुध्यते शासनमेतत् साकारानाकारचर्यया युक्तः । यः स प्रवचनसारं लघुना कालेन प्राप्नोति ॥ ७५ ॥
I
यो हि नाम सुविशुद्धज्ञानदर्शनमात्रस्वरूपव्यवस्थित वृत्तिसमाहितत्वात् साकारानाकारचर्यया युक्तः सन् शिष्यवर्गः स्वयं समस्तशास्त्रार्थविस्तरसंक्षेपात्मकश्रुतज्ञानोपयोगपूर्वकालुभावेन केवलमात्मानमनुभवन् शासनमेतद् बुध्यते स खलु निरवधित्रिसमयप्रवाहावस्थायित्वेन सकलार्थसार्थात्मकस्य प्रवचनस्य सारभूतं भूतार्थस्वसंवेद्य दिव्यज्ञानानन्दस्वभावमननु भूतपूर्व शेषमनोरथपरिहारे तत्रैव भावना कर्तव्येति ||७४ || अथ शिष्यजनं शास्त्रफलं दर्शयन् शास्त्रं समायपतिपप्पादि प्राप्नोति सो शिष्यजनंः कर्ता । कम् । पवयणसारं प्रवचन सारशब्दवाच्यं निजपरमात्मानम् । केन । लहुणा काले स्तोककालेन । यः किं करोति । बुज्झदि यः शिष्यजनो बुध्यते । किम् । सासणमेयं शास्त्रमिदम् । किं नाम । पत्रयणसारं सम्यग्ज्ञानस्य तस्यैव ज्ञेयभूतपरमात्मादिपदार्थानां तत्साध्यस्थ निर्विकारस्वसंवेदनज्ञानस्य च तथैव तत्त्वार्थश्रद्वानलक्षणसम्यग्दर्शनस्य तद्विषयभूतानेकान्तात्मक परमात्मादिद्रव्याणां तेन व्यवहारसम्यक्त्वेन साध्यस्य निजशुद्धात्मरुचिरूपनिश्चयसम्यक्त्वस्य तथैव च व्रतसमितिगुप्याद्यनुष्टानरूपस्य सरागचारित्रस्य तेनैव साध्यस्य स्वशुद्धात्मनिश्चलानुभूतिरूपस्य वीतरागचारित्रस्य च प्रतिपादकत्वात्प्रवचनसाराभिधेयम् । कथंभूतः सः शिष्यजनः । सागारणगारचरियया जुत्तो सागायुक्तः । आभ्यन्तररत्नत्रयानुष्ठानमुपादेयं कृत्वा बहिरङ्गरत्नत्रयानुष्ठानं सागरचर्या श्रावकचर्या । बहिरङ्गरत्नत्रयाधारेणाभ्यन्तररत्नत्रयानुष्ठानमनागारचर्या प्रमत्तसंयतादितपोधनचर्येत्यर्थः ॥ ७५ ॥ इति गाथापञ्चकेन पञ्चरत्नसंज्ञं पञ्चमस्थलं व्याख्यातम् । एवं 'णिच्छिदसुत्तत्थपदो' इत्यादि द्वात्रिंशद्गामोक्ष है, और यही साक्षात् सिद्ध है । जो सब उत्तम अवस्थायें हैं, उन रूप यही मानना चाहिये ॥ ७४ ॥ आगे शिष्यजनोंको शास्त्रका फल दिखलाकर शास्त्रकी समाप्ति करते हैं. - [ यः ] जो पुरुष [ साकारानाकारचर्यया युक्तः ] श्रावक और मुनिकी क्रियासे संयुक्त हुआ [ एतत् शासनं ] इस भगवन्तप्रणीत उपदेशको [ बुध्यते ] समझता है, [ सः ] वह [ लघुना कालेन ] थोड़े ही कालमें [प्रवचनसारं] सिद्धान्तके रहस्यभूत परमात्मभावको [ प्राप्नोति ] पाता है । भावार्थजो कोई शिष्यजन निर्मल ज्ञान दर्शनमें स्थिर होके श्रावक अथवा यतिभाव को प्राप्त हुआ संक्षेप विस्तार - रूप अर्थौसे गर्भित श्रुतज्ञानको पहले यथावत् (जैसेका तैसा ) जानकर, आत्माको अनुभवता हुआ, इस भगवत्प्रणीत उपदेशको समझता है, वह पुरुष सकल पदार्थोंका सूचक इस प्रवचन सिद्धान्तका सारभूत स्वसंवेदन ज्ञानगम्य सच्चिदानंद पूर्वमें नहीं अनुभव किया था, जिसका ऐसे भगवन्त आत्माको
1
Jain Education International
प्रवचनसारः
For Private & Personal Use Only
३३५
www.jainelibrary.org