SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ कुन्दकुन्दविरचितः निश्चितसूत्रार्थपदः शमितकषायस्तपोऽधिकश्चापि । लौकिकजनसंसर्ग न त्यजति यदि संयतो न भवति ॥ ६८ ॥ यतः सकलस्यापि विश्ववाचकस्य सलक्ष्मणः शब्दब्रह्मणस्तद्वाच्यस्य सकलस्यापि सल्लक्ष्मणो विश्वस्य च युगपदनुस्यूततदुभयज्ञेयाकारतयाधिष्ठानभूतस्य सल्लक्ष्मणो ज्ञातृतत्वस्य निश्चयनयान्निश्चितसूत्रार्थपदत्वेन निरुपरागोपयोगत्वात् शमितकषायत्वेन बहुशोऽभ्यस्तनिष्कम्पोपयोगखात्तपोऽधिकत्वेन च सुष्ठु संयतोऽपि सप्तार्चिः संगतं तोयमित्रावश्यं भाविविकारत्वात् लौकिक संगादसंयत एव स्यात्ततस्तत्संगः सर्वथा प्रतिषेध्य एव ॥ ६८ ॥ अथ लौकिकलक्षणमुपलक्षयति ३२८ समाप्तः । अथानन्तरं द्वात्रिंशद्गाथापर्यन्तं पञ्चभिः स्थलैः शुभोपयोगाधिकारः कथ्यते । तत्रादौ लौकिकसंसर्गनिषेधमुख्यत्वेन 'णिच्छिदसुत्तत्थपदो' इत्यादिपाठक्रमेण गाथापञ्चकम् । तदनन्तरं सरागसंयमापर - नामशुभोपयोगस्वरूपकथनप्रधानत्वेन 'समणा सुवजुत्ता' इत्यादि सूत्राष्टकम् । ततश्च पात्रापात्रपरीक्षाप्रतिपादनरूपेण 'रागो पसत्थभूदो' इत्यादि गाथाषट्कम् । ततः परमाचारादिविहितक्रमेण पुनरपि संक्षेपरूपेण समाचार व्याख्यानप्रधानत्वेन 'दिट्ठा पगदं वत्थं' इत्यादि सूत्राष्टकम् । ततः परं पञ्चरत्नमुख्यत्वेन 'जे अजधागहिदत्था' इत्यादि गाथापञ्चकम् । एवं द्वात्रिंशद्गाथाभिः स्थलपञ्चकेन चतुर्थान्तराधिकारे समुदायपातनिका । तद्यथा अथ लौकिकसंसर्ग प्रतिषेधयति -- णिच्छिदसुत्तत्थपदो निश्चितानि ज्ञातानि निर्णीतान्यनेकान्तस्वभावनिजशुद्धात्मादिपदार्थप्रतिपादकानि सूत्रार्थपदानि येन स भवति निश्चितसूत्रार्थपदः समिदकसाओ परविषये क्रोधादिपरिहारेण तथाभ्यन्तरे परमोपशमभावपरिणतनिजशुद्धात्मभावनाबलेन च शमितकषायः तवोधिगो चावि अनशनादिबहिरङ्गितपोबलेन तथैवाभ्यन्तरे शुद्धात्मभावनाविषये प्रतिपन्नाद्विजयनाच्च तपोऽधिकचापि सन् स्वयं संयतः कर्ता लोगिगजणसंसग्गं ण चयदि जदि लौकिकाः स्वेच्छाचारिणस्तेषां संसर्गों लौकिकसंसर्गस्तं न त्यजति यदि चेत् संजदो ण हवदि तर्हि संयतो न भवतीति । अयमत्रार्थ :- स्वयं भावितात्मापि यद्यसंवृतजनसंसर्गं न त्यजति तदातिपरिचयादग्निसंगतं जलमिव विकृतिभावं गच्छतीति ॥ ६८ ॥ अथानुकम्पालक्षणं कथ्यते [ अ० ३, गा० ६८ शांत किया है, [च] और जो [ तपोऽधिकः अपि ] तपस्याकर उत्कृष्ट है, तो भी [ यदि ] जो [ लौकिकजनसंसर्ग ] चारित्रभ्रष्ट अज्ञानी मुनियोंकी संगति [ न जहाति ] नहीं छोड़ता है, तो [ संयतः ] संयमी मुनि [ न भवति ] नहीं हो सकता। भावार्थ - जो भगवत्प्रणीत शब्दब्रह्मका जाननेवाला है, आत्मतत्त्वको भी जानता है, बहुत अभ्यासकर निष्कंप उपयोगी है, और तपकी अधिकतासे उत्कृष्ट संयमी भी है, इत्यादि अनेक गुणोंकर युक्त है, तो भी लौकिक मुनिकी जो संगति नहीं छोड़े, तो वह संयमी नहीं होसकता । जैसे आगके सम्बन्धसे उत्तम शीतल जल अवश्य गर्भ विकारको धारण करता है, उसी तरह मुनिभी कुसंगति से अवश्य नाशको प्राप्त होता है । इसलिये कुसंगति त्यागने योग्य है || ६८ ॥ आगे लौकिक मुनिका लक्षण कहते हैं - [ नैर्ग्रन्थ्यं प्रव्रजितः ] निर्बंथ मुनिपदको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy