SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ३०८ कुन्दकुन्दविरचितः [अ० ३, गा० ४४अथैकाग्र्यस्य मोक्षमार्गसमवधारयन्नुपसंहरति अढेसु जो ण मुज्झदि ण हि रजदि णेव दोसमुवयादि । समणो जदि सो णियदं खवेदि कम्माणि विविहाणि ॥ ४४ ॥ अर्थेषु यो न मुह्यति न हि रज्यति नैव द्वेषमुपयाति । श्रमणो यदि स नियतं क्षपयति कर्माणि विविधानि ॥४४॥ यस्तु ज्ञानात्मानमात्मानमेकमग्रं भावयति स न ज्ञेयभूतं द्रव्यमन्यदासीदति । तदनासाद्य च ज्ञानात्मात्मज्ञानादभ्रष्टः स्वयमेव ज्ञानीभूतस्तिष्ठन्न मुह्यति न रज्यति न द्वेष्टि भिरेकाग्रत्वेन स्वस्वरूपं भावनीयमित्यर्थः ॥ ४३ ॥ अथ निजशुद्धात्मनि योऽसावेकाग्रस्तस्यैव मोक्षो भवतीत्युपदिशति-अढेसु जो ण मुज्झदि ण हि रजदि णेव दोसमुवयादि अर्थेषु बहिःपदार्थेषु यो न मुह्यति न रज्यति हि स्फुटं नैवं द्वेषमुपयाति जदि यदि चेत् सो समणो स श्रमणः णियदं निश्चितं खवेदि विविहाणि कम्माणि क्षपयति कर्माणि विवधानि इति । अथ विशेषः योऽसौ दृष्टश्रुतानुभूतभोगाकाङ्क्षारूपाद्यपध्यानत्यागेन निजस्वरूपं भावयति तस्य चित्तं बहिःपदार्थेषु न गच्छति ततश्च बहिःपदार्थे चिन्ताभावानिर्विकारचिच्चमत्कारमात्राच्च्युतो न भवति । तदच्यवनेन च रागाद्यभावाद्विविधकर्माणि विनाशयतीति । ततो मोक्षार्थिना निश्चलचित्तेन निजात्मनि भावना कर्तयेति । इत्थं वीतरागचारित्रव्याख्यानं श्रुत्वा केचन वदन्ति-सयोगिकेवलिनामप्येकदेशेन चारित्रं, परिपूर्णचारित्रं पुनरयोगिचरमसमये भविष्यति तेन कारणेनेदानीमस्माकं सम्यक्त्वभावनया भेदज्ञानभावनया च पूर्यते चारित्रं पश्चाद्भविष्यतीति नैवं वक्तव्यम् । अभेदनयेन ध्यानमेव चारित्रं तच्च ध्यानं केवलिनामुपचारेणोक्तं चारित्रमप्युपचारेणेति । यत्पुनः समस्तरागादिविकल्पजालरहितं शुद्धात्मानुभूतिलक्षणं सम्यग्दर्शनज्ञानपूर्वकं वीतरागच्छमस्थचारित्रं तदेव कार्यकारीति । कस्मादिति चेत् , तेनैव केवलज्ञानं जातस्तस्माचारित्रे तात्पर्य कर्तव्यमिति भावार्थः । किंच उत्सर्गव्याख्यानकाले श्रामण्यं व्याख्यातमत्र पुनरपि किमर्थमिति परिहारमाह-तत्र सर्वपरित्यागलक्षण उत्सर्ग एव मुख्यत्वेन च मोक्षमार्गः अत्र तु श्रामण्यव्याख्यानमस्ति परं किंतु श्रामण्यं मोक्षमार्गो भवतीति मुख्यमार्गकी सिद्धि नहीं है ।। ४३ ॥ आगे जो एकाग्रताको प्राप्त है, उसीके मोक्षमार्ग है, ऐसा कहकर व्याख्यानका संकोच करते हैं-[यः] जो ज्ञानस्वरूप आत्माका जाननेवाला [श्रमणः ] मुनि [यदि] यदि [अर्थेषु] परस्वरूपपदार्थोंमें [न मुह्यति ] मोही नहीं होता, [न हि रज्यति] तो वह निश्चयकर रागी नहीं होता, और [ द्वेषं ] द्वेषभावको भी [नैव उपयाति ] नहीं प्राप्त होता, [स:] वह मुनि [नियतं] निश्चित एकाग्रताकर सहित हुआ [विविधानि ] अनेक प्रकारके [कर्माणि ] ज्ञानावरणादि कर्मीको [क्षयपति] क्षय करता है । भावार्थ-जो पुरुष ज्ञानस्वरूप आत्माको एकाग्रताकर चिंतवन करता है, वह ज्ञेयरूप परद्रव्यको अंगीकार नहीं करता, परको त्यागकर ज्ञानस्वरूप आत्मामें लीन होजाता है, वहाँ आप ही ज्ञानी हुआ मोही, रागी, द्वेषी, नहीं होता, ऐसी वीतराग अवस्थाकर मुक्त होता है। कर्मोंसे नहीं बँधता । इसलिये जो मुनि एकाग्रभावको प्राप्त है, उसको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy