________________
४३ ]
प्रवचनसारः
इत्येवं प्रतिपत्तुराशयवशादेकोऽप्यनेकीभवंत्रैलक्षण्यमथैकतामुपगतो मार्गोऽपवर्गस्य यः । द्रष्टृज्ञातृनिबद्धवृत्तिमचलं लोकस्तमास्कन्दता
मास्कन्दत्यचिराद्विकाशमतुलं येनोल्लसन्त्याश्चितेः ॥ ४२ ॥ अथानैकाग्र्यस्य मोक्षमार्गलं विघटयति
मुज्झदि वा रज्जदि वा दुस्सदि वा दव्वमण्णमासेज्ज । जदि समणो अण्णाणी बज्झदि कम्मेहिं विविहेहिं ॥ ४३ ॥ मुह्यति वा रज्यति वा द्वेष्टि वा द्रव्यमन्यदासाद्य । यदि श्रमणोऽज्ञानी बध्यते कर्मभिर्विविधैः ॥ ४३ ॥
Jain Education International
यो हि न खलु ज्ञानात्मानमात्मानमेकमग्रं भावयति सोऽवश्यं ज्ञेयभूतं द्रव्यमन्यदासीदति । तदासाद्य च ज्ञानात्मात्मज्ञानाद्भ्रष्टः स्वयमज्ञानीभूतो मुह्यति वा रज्यति वा द्वेष्टि वा तथाभूतश्च बध्यत एव न तु विमुच्यते । अत अनैकाग्र्यस्य न मोक्षमार्गखं सिद्धयेत् ॥ ४३ ॥
३०७
नेन निश्चयनयेन निर्णयो भवति । समस्तवस्तुसमूहस्यापि भेदाभेदात्मकत्वान्निश्चयव्यवहारमोक्षमार्गद्वयस्यापि प्रमाणेन निश्चयो भवतीत्यर्थः ॥ ४२ ॥ एवं निश्वयव्यवहार संयमप्रतिपादनमुख्यत्वेन तृतीयस्थले गाथाचतुष्टयं गतम् । अथ यः स्वशुद्धात्मन्येकाग्रो न भवति तस्य मोक्षाभावं दर्शयति — मुज्झदि वा रज्जदि बा दुस्सदि वा दव्वमण्णमासेज्ज जदि मुह्यति वा रज्यति वा द्वेष्टि वा यदि चेत् । किं कृत्वा द्रव्यमन्यदासाद्य प्राप्य । स कः । समणी श्रमणस्तपोधनः । तदा काले अण्णाणी अज्ञानी भवति । अज्ञानी सन् बज्झदि कम्मेहिं विविहेहिं बध्यते कर्मभिर्विविधैरिति । तथाहि — यो निर्विकारस्वसंवेदनज्ञानेनैकाम्रो भूत्वा स्वात्मानं न जानाति तस्य चित्तं बहिर्विषयेषु गच्छति । ततश्चिदानन्दैकनिजस्वभावाच्युतो भवति । ततश्च रागद्वेषमोहैः परिणमति तत्परिणमन् बहुविधकर्मणा बध्यत इति । ततः कारणान्मोक्षार्थि - हुए यद्यपि अनेक है, तो भी एकाग्रताकर एक है । ऐसा एक अनेकस्वरूप यह मोक्षमार्ग ज्ञातापुरुषों विचारसे सिद्ध हुआ है । ऐसे मोक्षमार्गको हे जगत् के भव्यजीवो ! तुम अंगीकार करो, जिससे कि यह चिदानंद अपने अनंत प्रकाशको प्राप्त होवे ॥ ४२ ॥ आगे जिसके एकाग्रता नहीं है, उसके मोक्षमार्ग भी नहीं, यह कहते हैं—[ यदि ] जो [अज्ञानी ] आत्मज्ञानसे रहित [ श्रमणः ] मुनि [ अन्यत् द्रव्यं ] आत्मासे भिन्न परद्रव्यको [ आसाद्य ] अंगीकार कर [ मुह्यति वा ] मोहको प्राप्त होता है, [ रज्यति वा ] अथवा रागी होता है, [ वा द्वेष्टि ] अथवा द्वेषी होता है, तो वह अज्ञानी मुनि [ विविधैः ] अनेक तरहके [कर्मभिः ] ज्ञानावरणादिकमसे [ बध्यते ] बँध जाता है । भावार्थजो कोई ज्ञानस्वरूप आत्माको एकाग्र होकर नहीं चिंतता है, वह अवश्य ही परद्रव्यको स्वीकार करता है, और परद्रव्यमें लगा हुआ, ज्ञानस्वरूप आत्मासे भ्रष्ट होता है । अज्ञानी हुआ रागी, द्वेषी, मोही, होता है । ऐसा होनेपर कर्मोंसे बँधता है, मुक्त नहीं होता । इसलिये जो एकाग्रताकर रहित है, उसके मोक्ष
For Private & Personal Use Only
www.jainelibrary.org