SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४० ] प्रवचनसारः पंचसमिदो तिगुतो पंचेदियसंवुडो जिदकसाआ । दंसणणाणसमग्गो समणो सो संजदो भणिदो ॥ ४० ॥ पञ्चसमितस्त्रिगुप्तः पञ्चेन्द्रियसंवृतो जितकषायः । दर्शनज्ञानसमग्रः श्रमणः स संयतो भणितः ॥ ४० ॥ यः खल्वनेकान्तकेतनागमज्ञानबलेन सकलपदार्थज्ञेयाकारकरम्बित विशदै कज्ञानाकारमात्मानं श्रद्दधानोऽनुभवश्वात्मन्येव नित्यनिश्चलां वृत्तिमिच्छन् समितिपञ्चकाङ्कुशितमवृत्तिप्रवर्तित संयमसाधनीकृतशरीरपात्रः क्रमेण निश्चलनिरुद्धपञ्चेन्द्रियद्वारतया समुपरतकायवाङ्मनोव्यापारो भूत्वा चिद्वृत्तेः परद्रव्यचङ्क्रमणनिमित्तमत्यन्तमात्मना सममन्योन्यसंवलना देकीभूतमपि स्वभावभेदपरत्वेन निश्चित्यात्मनैव कुशलो मल्ल इव सुनिर्भरं निष्पीड्य निष्पीड्य कषायशुद्धात्मद्रव्ये स्थित्वा मनोवचनकाय व्यापारनिवृत्तिरनारम्भः विसयविरागो निर्विषयस्वात्मभावनोत्थसुखे तृप्तिं कृत्वा पञ्चेन्द्रियसुखाभिलाषत्यागो विषयविरागः । खओ कसायाणं निः कषायशुद्धात्मभावनाबलेन क्रोधादिकषायत्यागः कषायक्षयः । सो संजमो त्ति भणिदो स एवंगुणविशिष्टः संयम इति भणितः । पव्वज्जा विसेसेण सामान्येनापि तावदिदं संयमलक्षणं प्रव्रज्यायां तपश्चरणावस्थायां विशेषेणेति । अत्राभ्यन्तरशुद्धा संवित्तिर्भावसंयमो बहिरङ्गनिवृत्तिश्च क्रव्यसंयम इति ॥ २१ ॥ अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां त्रयाणां यत्सविकल्पं यौगपद्यं तथा निर्विकल्पात्मज्ञानं चेति द्वयोः संभवं दर्शयति--- पंचसमिदो व्यवहारेण पञ्चसमितिभिः समितः संवृत्तः पञ्चसमितः निश्चयेन तु स्वस्वरूपे सम्यगितो गतः परिणतः समितः तिगुत्तो व्यवहारेण मनोवचनकायनिरोधत्रयेण गुप्तः त्रिगुप्तः निश्चयेन स्वरूपे गुप्तः परिणतः पंचेंदिrist व्यवहारेण पञ्चेन्द्रियविषयव्यावृत्या संवृतः पञ्चेन्द्रियसंवृतः निश्चयेन वातीन्द्रियसुखस्वादरतः जिदकसाओ व्यवहारेण क्रोधादिकषायजयेन जितकषायः निश्चयेन चाकषायात्मभावनारतः दंसणणाणसमग्गो अत्र दर्शनशब्देन निजशुद्धात्मश्रद्धानरूपं सम्यग्दर्शनं ग्राह्यम् । ज्ञानशब्देन तु स्वसंवेदनज्ञानमिति ताभ्यां समग्र दर्शनज्ञानसमग्रः समणो सो संजदो भणिदो स एवंगुणविशिष्टः श्रमणः संयत इति [पञ्चसमितः ] ईर्यादि पाँच समितियों को पालता है [ त्रिगुप्तः ] तीन योगोंके निरोधसे तीन गुप्तिवाला हैं, [ पञ्चेन्द्रियसंवृतः ] पाँच इन्द्रियोंको रोकनेवाला [जितकषायः ] कषायाँको जीतनेवाला और [ दर्शनज्ञानसमग्रः ] दर्शन ज्ञानसे परिपूर्ण है । भावार्थ - जो पुरुष स्याद्वादरूप आगमसे सकल ज्ञेयाकारकर प्रतिबिम्बित, निर्मल ज्ञानस्वरूप आत्माको जानता है, श्रद्धान करता है, अनुभवता है, अपने में निश्चल वृत्तिको चाहता है, जिसने पाँच समितिके आचरणसे स्वेच्छाचार वृत्तिको रोककर, अपने शरीर और संयमका साधन किया है, क्रमसे निश्चल होके पंचेन्द्रियोंका निरोध किया है, जिसके मन, वचन, कायसे कचाय दूर हुए हैं, जिन कषायोंसे यह चैतन्यवृत्ति परद्रव्यमें गमन करती है, और जो कषाय आत्माके साथ परस्पर मिलने से एकताको धारण करते हैं, उन कषाय- शत्रुओंको निश्चयकर अपनेसे जुदे जान उनको एक ही बार अपने ज्ञानकी अधिकतासे चूर चूर कर डाला है, जैसे प्रवीण मल्ल अपने शत्रु मल्लको मसल Jain Education International For Private & Personal Use Only ३०३ www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy