SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ २४० कुन्दकुन्दविरचितः [अ०२, गा० १०५ घातिकर्मतया मोहाभावे ज्ञानशक्तिप्रतिबन्धकाभावे च निरस्ततृष्णत्वात्प्रत्यक्षसर्वभावतत्त्वज्ञेयान्तगतत्त्वाभ्यां च नाभिलषति न जिज्ञासति न संदिद्यति च कुतोऽभिलषितो जिज्ञासितः संदिग्धवार्थः । एवं सति किं ध्यायति ॥ १०५ ॥ अथैतदुपलब्धशुद्धात्मा सकलज्ञानी ध्यायतीत्युत्तरमासूत्रयति - सव्वाबाधविजुत्तो समंत सव्वक्खसोक्खणाणड्ढो । भूदो अक्खाती दो झादि अणक्खो परं सोक्खं ॥ १०६ ॥ सर्वाबाधवियुक्तः समन्तसर्वाक्षसौख्यज्ञानाढ्यः । भूतोऽक्षातीतो ध्यायत्यनक्षः परं सौख्यम् ॥ १०६ ॥ अयमात्मा यदैव सहजसौख्यज्ञानवाधायतनानामसार्वदिकासकलपुरुषसौख्यज्ञानायतनानां चाक्षाणामभावात्स्वयमनक्षत्वेन वर्तते तदेव परेषामक्षातीतो भवन् निराबाधसहजसौख्यज्ञानत्वात् सर्वाबाधवियुक्तः, सार्वदिक्कसकल पुरुषसौख्यज्ञानपूर्णत्वात्समन्तसर्वाक्ष सौख्यज्ञानाढयश्च भवति । विद्याराधनाध्यानं करोति यदा विद्या सिद्धा भवति तत्फलभूतं विषयसुखं च सिद्धं भवति तदाराधनाव्यानं न करोति, तथायं भगवानपि केवलज्ञानविद्यानिमित्तं च तत्फलभूतानन्तसुखनिमित्तं च पूर्वं छद्मस्थावस्थायां शुद्धात्मभावनारूपं ध्यानं कृतवान् इदानीं तद्ध्यानेन केवलज्ञानविद्या सिद्धा तत्फलभूतमनन्तसुखं च सिद्धम् । किमर्थं ध्यानं करोतीति प्रश्नः आक्षेपो वा, द्वितीयं च कारणं परोक्षेऽर्थे ध्यानं भवति भगवतः सर्वं प्रत्यक्षं कथं ध्यानमिति पूर्वपक्षद्वारेण गाथा गता ॥ १०५ ॥ अथात्र पूर्वपक्षे परिहारं ददाति झादि ध्यायति एकाकारसमरसीभावेन परिणमत्यनुभवति । स कः कर्ता । भगवान् । किं ध्यायति । सोक्खं सौख्यम् । किंविशिष्टम् । परं उत्कृष्टं सर्वात्मप्रदेशाह्लादकपरमानन्तसुखम् । कस्मिन्प्रस्तावे । यस्मिन्नेव क्षणे भूदो भूतः संजातः । किंविशिष्टः । अक्खातीदो अक्षातीतः इन्दियरहितः न केवलं स्वयमतीन्द्रियो जातः परेषां च अणक्खो अनक्षः इन्द्रियविषयो न भवतीत्यर्थः । पुनरपि किंविशिष्टः । सव्वाबाधविजुत्तो प्राकृतलक्षणबलेन बाधाशब्दस्य ह्रस्वत्वं सर्वाबाधावियुक्तः । आसमन्ताद्वाधाः पीडा आबाधाः सर्वाश्च ता आबाधाश्च सर्वाबाधास्ताभिर्वियुक्तो रहितः सर्वाबाधावियुक्तः । पुनश्च किंरूपः । समंतसव्वक्खसोक्खसकल पदार्थ प्रत्यक्ष नहीं होते, और सबके अंतःप्रविष्ट इनका ज्ञान नहीं है, इस कारण वांछित अर्थका ध्यान करते हैं, इनके तो ध्यानका होना संभव है, परंतु केवली भगवान् तो धातियाकर्म रहित हैं, समस्त पदार्थोंके साक्षात्कार करनेवाले हैं, और सब पदार्थोंका प्रमाण ( माप) करनेवाले हैं, इसलिये इन सर्वज्ञके कोई चीजकी इच्छा नहीं रही, और कुछ जानना भी बाकी न रहा, इस कारण केवली भगवानके ध्यान कैसे हो सकता है ? ऐसा शिष्यका प्रश्न है ॥ १०५ ॥ आगे इस प्रश्नका उत्तर कहते हैं, कि यद्यपि स्वरूपको प्राप्त हुए हैं, तो भी केवली ध्यान करते हैं - [ अक्षातीतः ] इन्द्रियोंसे रहित [भूतः ] हुए [अनक्षः] दूसरेको इन्द्रिय ज्ञानगम्य न होनेवाले, [सर्वाबाधवियुक्तः ] समस्त ज्ञानावरणादि घातियाकर्मोंसे रहित और [समन्तसर्वाक्षसौख्यज्ञानाढ्यः ] सर्वांग परिपूर्ण आत्माके अनंतख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy