SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ २३८ कुन्दकुन्दविरचितः [अ० २, गा० १०४जो खविदमोहकलुसो विसयविरत्तो मणो णिरुभित्ता। समवढिदो सहावे सो अप्पाणं हवदि झादा ॥ १०४॥ यः क्षपितमोहकलुषो विषयविरक्तो मनो निरुध्य। समवस्थितः स्वभावे स आत्मानं भवति ध्याता ॥ १०४॥ आत्मनो हि परिक्षपितमोहकलुषस्य तन्मूलपरद्रव्यप्रवृत्त्यभावाद्विषयविरक्तसं स्यात् , ततोऽधिकरणभूतद्रव्यान्तराभावादुदधिमध्यप्रवृत्तैकपोतपतत्रिण इव अनन्यशरणस्य मनसो कलुसो यः क्षपितमोहकलुषः मोहो दर्शनमोहः कलुषश्चारित्रमोहः पूर्वसूत्रद्वयकथितक्रमेण क्षपितौ मोहकलुषौ येन स भवति क्षपितमोहकलुषः । पुनरपि किंविशिष्टः । विसयविरत्तो मोहकलुषरहितस्वात्मसंवित्तिसमुत्पन्नसुधारसास्वादबलेन कलुषमोहोदयजनितविषयसुखाकाङ्क्षारहितत्वाद्विषयविरक्तः । पुनरपि कथंभूतः । समबढिदो सम्यगवस्थितः । क्व । सहावे निजपरमात्मद्रव्ये स्वभावे । किं कृत्वा पूर्वम् । मणो णिरुभित्ता विषयकषायोत्पन्नविकल्पजालरूपं मनो निरुध्य निश्चलं कृत्वा सो अप्पाणं हवदि झादा स एवंगुणयुक्तः पुरुषः स्वात्मानं भवति ध्याता । तेनैव शुद्धात्मध्यानेनात्यन्तिकी मुक्तिलक्षणां शुद्धिं लभत इति । ततः स्थितं शुद्धात्मध्यानाजीवो विशुद्धो भवतीति । किं च ध्यानेन किलात्मा शुद्धो जातः तत्र विषये चतुर्विधव्याख्यानं क्रियते । तथाहि-ध्यानं ध्यानसंतानस्तथैकध्यानचिन्ता ध्यानान्वयसूचनमिति । तत्रैकाग्र्यचिन्तानिरोधो ध्यानम् । तच्च शुद्धाशुद्धरूपेण द्विधा । अथ ध्यानसंतानः कथ्यते—यत्रान्तर्मुहूर्तपर्यन्तं ध्यानं तदनन्तरमन्तर्मुहूर्तपर्यन्तं तत्त्वचिन्ता पुनरप्यन्तर्मुहूर्तपर्यन्तं ध्यानं पुनरपि ततः चिन्तेति प्रमत्ताप्रमत्तगुणस्थानवदन्तर्मुहूर्तेऽन्तर्मुहूर्ते गते सति परावर्तनमस्ति स ध्यानसंतानो भण्यते । स च धर्मध्यानसंबन्धी । शुक्लध्यानं पुनरुपशमश्रेणिक्षपकश्रेण्यारोहणे भवति । तत्र चाल्पकालत्वात्परावर्तनरूपध्यानसंतानो न घटते । इदानीं ध्यानचिन्ता कथ्यते यत्र ध्यानसन्तानवद्वयानपरावर्तो नास्ति ध्यानसंबन्धिनी चिन्तास्ति तत्र यद्यपि कापि काले ध्यानं करोति तथापि सा ध्यानचिन्ता भण्यते । अथ ध्यानान्वयसूचनं कथ्यतेतथा [विषयविरक्तः] परद्रव्यरूप इष्ट अनिष्ट इंद्रियोंके विषयोंसे विरक्त हुआ [मनः निरुध्य] चंचल चित्तको बाह्य विषयोंसे रोककर [स्वभावे समवस्थितः] अपने अनंत सहज चैतन्यस्वरूपमें [समवस्थितः] एकाग्र निश्चलभावमें ठहरता है, [स] वह पुरुष [आत्मानं] टंकोत्कीर्ण निज शुद्ध जीवद्रव्यका [ध्याता] ध्यान करनेवाला [भवति] होता है। भावार्थ-जब यह आत्मा निर्मोही होता है, तब मोहके आधीन जो परद्रव्यमें प्रवृत्ति है, उसका अभाव होता है, और परप्रवृत्तिके अभावसे इन्द्रियोंके विषयोंमें वैराग्यभाव होता है, ऐसा होनेसे सहज ही मनका निरोध होता है। यह मन अत्यन्त चंचल है। जब इंद्रिय-विषयोंसे वैराग्यभाव होता है, तब विषयरूप आधारके अभावसे अपने आप चंचलपनेसे रहित होजाता है। जैसे समुद्रके मध्यमें जहाजका पक्षी उड़ उड़कर चारों दिशाओंमें वृक्षादि आधारके अभाव होनेसे अन्य आश्रयके विना जहाजके ही ऊपर आप ही से निश्चल होकर तिष्ठता-ठहरता है, उसी प्रकार यह मन भी वैराग्यभावसे परद्रव्यरूप इन्द्रिय विषय आधारके विना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy