SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २०६ कुन्दकुन्दविरचितः [अ० २, गा० ७३णिद्धा वा लुक्खा वा अणुपरिणामा समा व विसमा वा। समदो दुराधिगा जदि बज्झन्ति हि आदिपरिहीणा ॥ ७३ ॥ स्निग्धा वा रूक्षा वा अणुपरिणामाः समा वा विषमा वा। समतो द्वयधिका यदि बध्यन्ते हि आदिपरिहीनाः॥७३॥ समतो द्वयधिकगुणाद्धि स्निग्धरूक्षत्वाद्वन्ध इत्युत्सर्गः, स्निग्धरूक्षद्वयधिकगुणत्वस्य हि परिणामकत्वेन बन्धसाधनत्वात् । न खल्वेकगुणात् स्निग्धरूक्षत्वाबन्ध इत्यपवादः एकगुणस्निग्धरूक्षत्वस्य हि परिणम्यपरिणामकत्वाभावेन बन्धस्यासाधनत्वात् ।। ७३ ॥ शब्देनात्र परिणामपरिणता अणवो गृह्यन्ते । कथंभूताः । णिद्धा वा लुक्खा वा निग्धपरिणामपरिणता वा रूक्षपरिणामपरिणता वा । पुनरपि किंविशिष्टाः समा व विसमा वा द्विशक्तिचतुःशक्तिषट्शक्त्यादिपरिणतानां सम इति संज्ञा । त्रिशक्तिपञ्चशक्तिसप्तशक्त्यादिपरिणतानां विषम इति संज्ञा । पुनश्च किंरूपा । समदो दुराधिगा जदि समतः समसंख्यानात्सकाशाद् द्वाभ्यां गुणाभ्यामधिका यदि चेत् । कथं द्विगुणाधिकत्वमिति चेत् । एको द्विगुणस्तिष्ठति द्वितीयोऽपि द्विगुण इति द्वौ समसंख्यानौ तिष्ठतस्तावत् एकस्य विवक्षितद्विगुणस्य द्विगुणाधिकत्वे कृते सति स चतुर्गुणो भवति शक्तिचतुष्टयपरिणतो भवति । तस्य चतुर्गुणस्य पूर्वोक्तद्विगुणेन सह बन्धो भवतीति । तथैव द्वौ त्रिशक्तियुक्तौ तिष्ठतस्तावत् । तत्राप्येकस्य त्रिगुणशब्दाभिधेयस्य त्रिशक्तियुक्तस्य परमाणोः शक्तिद्वयमेलापके कृते सति पञ्चगुणत्वं भवति । तेन पञ्चगुणेन सह पूर्वोक्तत्रिगुणस्य बन्धो भवति । एवं द्वयोर्द्वयोः स्निग्धयोईयोईयो रूक्षयोयोईयोः स्निग्धरूक्षयो समयोः विषमयोश्च द्विगुणाधिकत्वे सति बन्धो भवतीत्यर्थः, किंतु विशेषोऽस्ति । आदिपरिहीणा आदिशब्देन जलस्थानीयं जघन्यस्निग्धत्वं वालुकास्थानीयं जघन्यरूक्षत्वं भण्यते ताभ्यां विहीना आदिपरिहीना बध्यन्ते । किं च-परमचैतन्यपरिणतिलक्षणपरमात्मतत्त्वभावनारूपधर्मध्यानशुक्लध्यानबलेन यथा जघन्यस्निग्धशक्तिस्थानीये क्षीणरागत्वे सति जघन्यरूक्षशक्तिस्थानीये क्षीणद्वेषत्वे च सति जलवालुकयोरिव जीवस्य बन्धो न भवति, तथा पुद्गलपरमाणोरपि जघन्यस्निग्धरूक्षशक्तिप्रस्तावे बन्धो न भवतीत्यभिप्रायः ॥ ७३ ॥ अथ दिखलाते हैं-[अणुपरिणामाः] परमाणुके पर्यायभेद [स्निग्धा वा] स्निग्ध होवें, [वा] अथवा [रुक्षाः] रूखे होवें, [समा वा] दो चार छह इत्यादि अंशोंकी गिनती कर समान हों, [विषमा वा] अथवा तीन पाँच सात इत्यादि अंशोंकर विषम हों, परंतु [यदि] जो [आदिपरिहीना] जघन्य अंशसे रहित [समतः] गिनतीकी समानतासे [व्यधिकाः] दो अंश अधिक होवें, तब बिध्यन्ते] आपसमें बँधते हैं, अन्यरीतिसे नहीं। भावार्थ-स्निग्ध रूक्ष गुणमें अनंत अंश भेद हैं, परंतु एक परमाणु दूसरे परमाणुसे तब बँधता है, जब कि दो अंश अधिक स्निग्ध अथम रूक्ष गुणका परिणमन हो, क्योंकि दो ही अंशकी अधिकतासे बंध होनेकी योग्यता परमागममें दिखलाई है, अन्य प्रकारसे बंध नहीं होता, पूर्वोक्त परिणमनसे ही होता है। एक अंशरूप स्निग्ध रूक्ष भाव परिणत परमाणुसे बंध नहीं होता, क्योंकि अति जघन्यभावमें बंधपरिणाम होनेकी अयोग्यता है। इस कारण एक अंशकर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy