________________
१९४
कुन्दकुन्दविरचितः
अत्थित्तणिच्छिदस्स हि अत्थस्सत्थंतरस्मि संभूदो । अत्थो पज्जाओ सो संठाणादिप्पभेदेहिं ॥ ६० ॥ अस्तित्वनिश्चितस्यार्थस्यार्थान्तरे संभूतः । अर्थः पर्यायः स संस्थानादिप्रभेदैः ॥ ६० ॥
स्वलक्षणभूतस्वरूपास्तित्खनिश्चितस्यैकस्यार्थस्य स्वलक्षणभूतस्वरूपास्तित्वनिश्चित एवान्यस्मिन्नर्थे विशिष्टरूपतया संभावितात्मलाभोऽर्थोऽनेकद्रव्यात्मकः पर्यायः । स खलु पुद्गलस्य पुद्गलान्तर इव जीवस्य पुनले संस्थानादिविशिष्टतया समुपजायमानः संभाव्यत एव । उपपन्नचैवंविधः पर्यायः । अनेकद्रव्यसंयोगात्मत्वेन केवलजीवव्यतिरेकमात्रस्यैकद्रव्यपर्यायस्यास्खलितस्यान्तरवभासनात् ॥ ६० ॥
Jain Education International
कथ्यते । तत्र विशेषान्तराधिकारचतुष्टयं भवति । तेषु चतुर्षु मध्ये शुभाद्युपयोगत्रय मुख्यत्वेनैकादशगाथापर्यन्तं प्रथमविशेषान्तराधिकारः प्रारभ्यते । तत्र चत्वारि स्थलानि भवन्ति । तस्मिन्नादौ नरादिपर्यायैः सह शुद्धात्मस्वरूपस्य पृथक्त्वपरिज्ञानार्थं 'अत्थित्तणिच्छदस्स हि' इत्यादि यथाक्रमेण गाथात्रयम् । तदनन्तरं तेषां संयोगकारणं 'अप्पा उवओगप्पा' इत्यादि गाथाद्वयम् । तदनन्तरं शुभाशुभशुद्धोपयोगत्रय सूचनमुख्यत्वेन 'जो जाणादि जिणिंदे' इत्यादि गाथात्रयम् । तदनन्तरं कायवाङ्मनसां शुद्धात्मना सह भेदकथनरूपेण 'णाहं देहो' इत्यादि गाथात्रयम् । एवमेकादशगाथाभिः प्रथमविशेषान्तराधिकारे समुदायपातनिका । तद्यथा— अथ पुनरपि शुद्धात्मनो विशेष भेदभावनार्थं नरनारकादिपर्यायरूपं व्यवहारजीवत्वहेतुं दर्शयति ——अत्थित्तणिच्छिदस्स हि चिदानन्दैकलक्षणस्वरूपास्तित्वेन निश्चितस्य ज्ञानस्य हि स्फुटम् । कस्य । अत्थस्स परमात्मपदार्थस्य अत्थंतरम्मि शुद्धात्मार्थादन्यस्मिन् ज्ञानावरणादिकर्मरूपे अर्थान्तरे संभूदो संजात उत्पन्नः अत्थो यो नरनारकादिरूपोऽर्थः । पज्जाओ सो निर्विकारशुद्धात्मानुभूतिलक्षणस्वभावव्यञ्जनपर्यायादन्यादृशः सन् विभावयञ्जनपर्यायो भवति । स इत्थंभूतपर्यायो जीवस्य । कैः कृत्वा जातः । संठाणादिप्पभेदेहिं संस्थानादिरहितपरमात्मद्रव्यविलक्षणैः संस्थानसंहननशरीरादिप्रभेदैरिति निश्चितस्य ] अपने सहज स्वभावरूप स्वरूपके अस्तित्वकर निश्चल जो [ अर्थस्य ] जीवपदार्थ है, उसके [हि ] निश्चयसे [यः ] जो [अर्थान्तरे संभूतः ] अन्य पदार्थ पुद्गलद्रव्यके संयोगसे उत्पन्न हुआ, [अर्थ: ] जो अनेक द्रव्यस्वरूप पदार्थ है, [सः ] वह संयोगजनित भाव [ संस्थानादिप्रभेदैः ] संस्थान संहननादिके भेदोंसे [पर्यायः ] नर नारक आदि विभाव (विकार) पर्याय हैं । भावार्थ - जीवके पुद्गलके संयोगसे नर नारकादि विभावपर्याय उत्पन्न होते हैं। वे पर्याय व्यवहार जीवके कारण हैं, सर्वथा विनाशवान् हैं, तथा त्यागने योग्य हैं, और जो जीवके पुद्गल -संयोगसे भिन्न असंख्यातप्रदेशी अंतरंगमें प्रकाशमान नित्य अखंडित ज्ञान दर्शनादिपर्याय हैं, वे उपादेय ( ग्रहण करने योग्य ) १ पुस्तकान्तरे तदनन्तरं शुभाशुभशुद्धोपयोगत्रय सूचन मुख्यत्वेन अप्पा उवओगप्पा ' -इत्यादिसूत्रद्वयं तदन्तरं शरीरवाङ्मनसां संबंधित्वेन शुद्धात्मनः कर्तृकरणादिनिषेध कथनमुख्यत्वेन 'णाहं देहो' इत्यादि -गाथाश्रयम्, ततः परं तस्यैवोपयोगत्रयस्य विशेषव्याख्यानायं 'जो जाणादि जिणिदे' इत्यादि गाथात्रयम् ।
[ अ० २, गा०.६०
For Private & Personal Use Only
6
www.jainelibrary.org