________________
६२]
प्रवचनसारः अथ केवलिनामेव पारमार्थिकसुखमिति श्रद्धापयति
णो सद्दहंति सोक्खं सुहेसु परमं ति विगद्घादीणं । सुणिदूण ते अभव्या भव्वा वा तं पडिच्छति ॥ ६२॥ न श्रद्दधति सौख्यं सुखेषु परममिति विगतघातिनाम् ।।
श्रुत्वा ते अभव्या भव्या वा तत्मतीच्छन्ति ॥ ६२॥ इह खलु स्वभावप्रतिघातादाकुलत्वाच मोहनीयादिकर्मजालशालिनां सुखाभासेऽप्यपारमार्थिकी मुखमिति रूढिः। केवलिनां तु भगवतां प्रक्षीणघातिकर्मणां स्वभावप्रतिघाताभावादनाकुलत्वाच्च यथोदितस्य हेतोर्लक्षणस्य च सद्भावात्पारमार्थिकं सुखमिति श्रद्धेयम् । न किलैवं येषां श्रद्धानमस्ति ते खलु मोक्षसुखसुधापानदूरवर्तिनो मृगतृष्णाम्भोभारमेवाभव्याः पश्यन्ति । ये पुनरिदमिदानीमेव वचः प्रतीच्छन्ति ते शिवश्रियो भाजनं समासनभव्याः भवन्ति । सुखं केवलिनामेव, संसारिणां ये मन्यन्ते तेऽभव्या इति निरूपयति –णो सदहति नैव श्रद्दधति न मन्यन्ते । किम् । सोक्खं निर्विकारपरमाह्लादैकसुखम्। कथंभूतं न मन्यन्ते। सुहेसु परमं ति सुखेषु मध्ये तदेव परमसुखम् । केषां संबन्धि यत्सुखम् । विगदयादीणं विगतघातिकर्मणां केवलिनाम् । किं कृत्वापि न मन्यन्ते । सुणिदण 'जादं सयं समत्तं' इत्यादिपूर्वोक्तगाथात्रयकथितप्रकारेण श्रुत्वापि ते अभव्या ते अभव्याः ते हि जीवा वर्तमानकाले सम्यक्त्वरूपभव्यत्वव्यक्त्यभावादभव्या भण्यन्ते, न पुनः सर्वथा भन्या वा तं पडिच्छंति ये वर्तमानकाले सम्यक्त्वरूपभव्यत्वव्यक्तिपरिणतास्तिष्ठन्ति ते तदनन्तसुखमिदानीं मन्यन्ते । ये च सम्यक्त्वरूपभव्यत्वव्यक्त्या भाविकाले परिणमिष्यन्ति ते च दूरभव्या अग्रे श्रद्धानं कुर्युरिति । अयमत्रार्थः ---मारणार्थ तलवरगृहीततस्करस्य मरगमिव यद्यपीन्द्रियसुखभिष्टं न भवति, तथापि तलवरस्थानीयचारित्रमोहोदयेन मोहितः सन्निरुपरागस्वात्मोत्थसुखमलभमानः सन् सरागसम्यग्दृष्टिरात्मनिन्दादिपरिणतो हेयरूपेग तदनुभवति । ये पुनर्वीतरागसम्यग्दृष्टयः शुद्धोपयोगिनस्तेषां, मत्स्यानां स्थलगमनमिवाग्निप्रवेश इव वा निर्विकारशुद्धात्मसुखाच्च्यवनमपि दुःखं प्रतिभाति । तथा चोक्तम् - "समसुखशीलितमनसां च्यवनमपि द्वेषमेति किमु कामाः। क्या ? ॥ ६१ ॥ अब केवलीके ही पारमार्थिक अतीन्द्रियसुख है, ऐसा निश्चय करते हैं-[विगतघातिनां] जिनके घातियाकर्मीका क्षय हो गया है, ऐसे केवली भगवानके [सुखेषु परम सौख्यं] अन्य सब सुखोंमें उत्कृष्ट अतींद्रिय सुख है, [इति श्रुत्वा] ऐसा सुनकर [ये] जो कोई पुरुष [न हि श्रद्दधति] विश्वास नहीं करते, [ते] वे पुरुष [अभव्याः ] सम्यक्त्वरूप परिणतिसे रहित अभव्य हैं। [वा] और जो पुरुष [ तत् ] केवलीके उस अतींद्रिय सुखको [प्रतिच्छन्ति ] मानते हैं, ['ते' भव्या] वे भव्य हैं, अर्थात् सम्यक्त्व परिणामकर सहित हैं। भावार्थ-सम्यग्दृष्टि जीव संसारके सुप्पोको सुखाभास समझते हैं, और इंद्रियसुखोंको रूढ़िसे सुख मानते हैं । परंतु यथार्थमें केवलीके सुखको ही सुख मानते हैं, क्योंकि उनके घातियाकर्मोंके नाश होनेसे अनाकुलता प्रगट होती है, और आकुलता रहित सुख ही पारमार्थिक (निश्चयसे ) सुख है । जो अज्ञानी आत्मीक सुखके आस्वाद
प्रव. १.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org