________________
अष्टमं कल्याणमन्दिर स्मरणम् ।
तेनेह जन्मनि मुनीश ! पराभवानां, जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ नूनं न मोहतिमिराषृतलोचनेन,
विभो ! सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्थाः
प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ? ॥ ३७ ॥ आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि,
नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽस्मि तेन जनबान्धव ! दुःखपात्रं,
यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः ॥ ३८ ॥ त्वं नाथ ! दुःखिजनवत्सल ! हे शरण्य !,
कारुण्यपुण्यवसते ! वशिनां वरेण्य ! | भक्त्या नते मयि महेश ! दयां विधाय, दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३९ ॥ निःसङ्घभ्यसारशरणं शरणं शरण्य
मासाथ सादितरिपु प्रथितावदातम् । स्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो,
वध्योऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ||४० ॥ देवेन्द्रवन्द्य ! विदिताखिलवस्तुसार 1,
संसारतारक ! विभो ! भुवनाधिनाथ ! | त्रायस्व देव ! करुणाद ! मां पुनीहि, सीदन्तमद्य भयव्यसनाम्बुराशे ॥ ४१ ॥
Jain Education International
२९
For Private & Personal Use Only
www.jainelibrary.org