________________
૨૮
नवस्मरणादिस
प्राग्भारसम्भृतनभांसि रजांसि रोषादुत्थापितानि कमठेन शठेन यानि । छायाऽपि तैस्तव न नाथ ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यद् गर्जदूर्जितघनौघमद्भ्रभीमं, भ्रश्यतडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दधे,
तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् || ३२ ॥ ध्वस्तोर्ध्वकेश विकृताकृतिमर्त्यमुण्डप्रालम्बभृद्भयद वक्त्रविनिर्यदग्निः । प्रेतव्रजः प्रति भवन्तमपीरितो यः,
सोऽस्याऽभवत् प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ धन्यास्त एंव भुवनाधिप ! ये त्रिसन्ध्यमाराधयन्ति विधिवद् विधुतान्यकृत्याः । भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः,
पादद्वयं तव विभो ! भुवि जन्मभाजः ||३४|| अस्मिन्नपारभववारिनिधौ मुनीश !,
मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्रपवित्रमन्त्रे,
किं वा विपद्विषधरी सविधं समेति १ ॥ ३५ ॥ जन्मान्तरेऽपि तव पादयुगं न देव !, मन्ये मया महितमीहितदानदक्षम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org