SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अष्टम कल्याणमन्दिरस्मरणम् । धृष्टोऽपि कौशिकशिशुर्यदि चा दिवान्धो, रूपं प्ररूपयति किं किल धर्मरश्मेः १ ॥३॥ मोहक्षयादनुभवन्नपि नाथ ! मर्यो, नूनं गुणान् गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा न्मीयेत केन जलधेर्नेनु रत्नराशिः ॥४॥ अभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि, कतुं स्तवं लसदसङ्ख्यगुणाकरस्य । बालोऽपि किं न निजबाहयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाऽम्पुराशेः॥५॥ ये योगिनामपि न यान्ति गुणास्तवेश!, वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं, जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ आस्तामचिन्त्यमहिमा जिन ! संस्तवस्ते, नामाऽपि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान् निदाधे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ हृदर्तिनि त्वयि विभो ! शिथिलीभवन्ति, जन्तोः क्षणेन निविडा अपि कर्मबन्धाः। सद्यो भुजङ्गममपा इव मध्यभाग. मभ्यागते बनशिखण्डिनि चन्दनस्य ॥ ८॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy