________________
२५
मवस्मरणादिलबहे मुच्यन्त एव मनुजाः सहसा जिनेन्द्र !, - रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे,
चौरैरिवाशु पशवः प्रपलायमानैः ॥९॥ त्वं तारको जिन ! कथं भविनांत एव,
त्वामुखहन्ति हृदयेन यदुत्तरन्तः। यहा दृतिस्तरति यजलमेष नून
मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥ यस्मिन् हरप्रभृतयोऽपि हतप्रभावाः,
सोऽपि त्वया रतिपतिः क्षपितःक्षणेन । विध्यापिता हुतभुजः पयसाऽथ येन,
पीतं न किं तदपि दुर्धरवाडवेन ? ॥११॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना
स्त्वां जन्तवः कथमहो! हृदये दधानाः। जन्मोदधि लघु तरन्त्यतिलाघवेन ?,
चिन्त्यो न हन्त ! महतां यदि वा प्रभावः॥१२॥ क्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो,
ध्वस्तास्तदा बत कथं किल कर्मचौराः। लोषत्यमुत्र यदि वा शिशिराऽपि लोके,
नीलमाणि विपिनानि न कि हिमानी? ॥१३॥ त्वां योगिनो जिन ! सदा परमात्मरूप. मन्वेषयन्ति हृदयाम्बुजकोशदेशे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org