________________
नवस्मरणादिसङ्ग्रहे
नात्मा न पुण्यं न भवो न पापं, मया विटानां कटुगीरपीयम् । आधार कर्णे त्वयि केवलार्के, परिस्फुटे सत्यपि देव ! धिङ् माम् ॥ १७ ॥
न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वाऽपि मानुष्यमिदं समस्तं,
कृतं मयाऽरण्यविलापतुल्यम् ॥ १८ ॥ चक्रे मयाऽसत्स्वपि कामधेनुheya - चिन्तामणिषु स्पृहातिः । न जैनधर्मे स्फुटशर्मदेऽपि,
जिनेश ! मे पश्य विमूढभावम् ॥ १९ ॥ सगोगलीला न च रोगकीला, धनागमो नो निधनागमश्च ।
दारा न कारा नरकस्य चित्ते,
व्यचिन्ति नित्यं मयकाऽधमेन || २० || स्थितं न साधोर्हृदि साधुवृत्तात्, परोपकारान्न यशोऽर्जितं च । कृतं न तीर्थोद्धरणादि कृत्यं, मया सुधा हारितमेव जन्म ॥ २१ ॥ वैराग्यरङ्गो न गुरुदितेषु, न दुर्जनानां वचनेषु शान्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org