________________
१० बरः] कौमुदीमित्राणन्दम् । १२३ पुरुषा-(सविनयमञ्जलिं बद्ध्वा) शीर्णनिःशेषसंसारव्यापारावेशवैशसम् । स्मरामि निष्ठितक्लेशं देवं नाभिसमुद्भवम् ॥ १५ ॥ सिद्धाधिनाथ:-ऐहिकमपि किमपि शरणं प्रतिपद्यस्व ।
पुरुषः-ऐहिकः पुनरनङ्गदासो योनिसिद्धः शरणम् । यो मया वरुणद्वीपे खयमुपकृतः। सिद्धाधिनाथ:-कयं भवान् मित्राणन्दः । पुरुषः-मित्राणन्दोऽस्मि । सिद्धाधिनाथ:-(प्रणम्य ) परमेश्वर ! प्रसीद प्रसीद । क्षमख कृतघ्नस्य ऋरचेतसोऽनङ्गदासस्य तमेकमपराधम् । (पञ्चभैरवं प्रति ) स एष मे जीवितस्य स्वामी मित्राणन्दो यद्गवेषणाय यूयमभ्यर्थिताः । ( पञ्चभैरवः यावकोपलेपमपनीय मित्राणन्दं
सिंहासने समुपवेशयति ।) (आत्रेयी प्रत्यभिज्ञाय परिरभ्य च तारखरं प्रलपति ।) पुरुषा-(सवाष्पं ) प्रिये ! कामिमां दुस्थामवस्थामधिगववत्यसि ।
सिदाधिनाथ:-अपरमपि बहु कर्त्तव्यमस्ति । परमिदानी गहाण खीरत्नमेकम् । अममेव कुण्डाग्नि प्रदक्षिणीकृत्य
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org