SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं अबो वरं सम्बहा कि पि नत्यि । पल्लीपतिः-अयं ते पिङ्गलः शम्बलं दास्यति । (पुनः साक्षेपं यमदण्डं प्रति ) गृहाणैतं बाळकम् । अतिकालो भवति । बजामा पल्लिकायाम् । ( यमदण्डः प्रसमं रुदन्तं बालकमाकर्षति ।) (बालकः प्रतिमयेन वृद्धायाः कण्ठमवलम्बते ।) (सर्वास्तारस्वरं रुदन्ति ।) पिङ्गालकः-(वृद्धा यष्टिना प्रणिहत्य) मुत्र वारकम् । अन्यथा त्वां मारयिष्यामि । वृद्धा-(क) मारेहि मं, तहावि न मिल्लिस्सं । पल्लीपतिः-(स्वगतं) अस्मिन् जगति महत्यपि न वेधसा किमपि वस्तु तद्वटितम् अनिमित्तचित्तवृत्तेर्भवति यतो मातुरुपकारः॥६॥ (प्रकाशं सकपटं ) यमदण्ड ! यदि न मुञ्चति तदा व्यापादय पालकम् । (यमदण्डः कृतकं कृपाणेन प्रणिहन्ति ।) (वृद्धा पूत्कुर्वाणा कृपाणघातं सिरसा प्रतीच्छति ।) स्थविर:--( तारस्वरं ) अब्रह्मण्यमब्रमण्यम् । सुमित्रा-(यमदण्डं प्रति) (ख) भाय! कीस एवं येरि मारेसि। (क) मारय माम्, तथापि न मोक्ष्यामि । (ख) आतः ! कस्मादेतां स्थविरां मारयसि ! । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy