________________
सुपासनाह-चरिअम्मि
1
इच्चावित्यरेण कहियाए देसणाए सुरीहिं । सिट्टी जंक्इ संवेगनिन्भरं सूरिसमुहमिणं ॥ ४२ ॥ तुज्झ पसाएण महं निचं निव्वहर नाह ! जिणपूया । किंपुण पहु ! अंगरुहा कुणंति अपत्तियं बहुयं ॥ जयंति तहा विज्जइ न किंपि घूयाए तुह फलं ताय ! । पुण्वज्जियाचि लच्छी नवरं नीहरइ ढाओ || maa art एवं धम्मेण धर्ण इमस्स हारवियं । मम पुण मणयंपि न किंपि माणसे फुरइ तव्ववणं ॥ ता थिरकरणोवाओ हविज्ज जइ कोवि ताणवि मुणिंद ! । तो निव्वहिज धम्मो सुहेण मह नाह ! इय वोतु ॥ मोणेण ठिओ सिट्ठी उवयारं जाणिऊण सूरीवि । उवइसइ तस्स मंतं निरवज्जं पढियसिद्धं च ॥ ४७ ॥ कसिणच उदसिरयणीए अद्धरत्तम्मि पेयत्रणमज्झे । काउस्सग्गेण ठिओ सुमरिज्जतु तं इमं मतं ॥ ४८ ॥ तो पच्चक्खो होही कबड्डजक्खो मुहुत्तमित्तेण । मणिही सो तुह समुहं अभिरुइयं मग्गसु वरंति ||४९ ॥ तो तुमए सो एवं एवं वत्तव्यओत्ति भणिऊण | सूरीवि विहारेणं अन्नत्थ गओ तओ सिट्टी ॥ ५० ॥ भवसम्म पत्तो मसाणभूमीए कहियविहिपुत्रं । काउस्सग्गम्मि टिओ तो पुन्पुत्तं समम्गंपि ॥ तह जाये जह भणियं जक्खाभिमु भइ तो सिट्ठी । चउमासदिणे पूया जा विहिया चउसरेण मए । ती फलेण पसायं कुणसु तुमं अस्थि तुज्झ जइ सत्ती । इ सुणिउंसो जक्खो उनओगे देइ अवहीए ।। उल्लवियं तो तेण तीए फलं वियरिउ असतो है । जम्हा जिणस्स पूयाए एक्कसि भावविहियाए || सग्गसिरीवि हु लब्भइ अइवित्थिन्ना ममं च सा नत्थि । वंतरजाईओ है ता अन्नं भणसु तं किंपि ||
५१२
दानं सुपात्रे श्रवणं सुतीर्थे सुसाधुसेवा सुगतेर्मार्गः ॥ ४१ ॥
इत्यादिविस्तरेण कार्थतायां देशनायां सूरिभिः । श्रेष्ठी जल्पति संवेगनिर्भरं सूरिसम्मुखमिदम् ||४२ ॥ तव प्रसादेन मम नित्यं निर्वहति नाथ ! जिनपूजा । किन्तु प्रभो ! अङ्गरुहाः कुर्वन्त्यप्रत्ययं बहुम् ||४३|| जल्पन्ति तथा विद्यते न किमपि पूजायास्तव फलं तात !। पूर्वार्जितापि लक्ष्मीः किन्तु निस्सरति गेहात् ||४४ || लोकोऽपि भणत्येवं धर्मेण धनमस्य नाशितम् । मम पुनर्मनागरि न किमपि मानसे स्फुरति तद्वचनम् ॥४५॥ तस्मात्स्थिर करणोपायो भवेद्यदि कोऽपि तेषामपि मुनीन्द्र ! । ततो निर्वहेद् धर्मः सुखेन मम नाथ ! इत्युक्त्वा || मौनेन स्थितः श्रेष्ठ्युपकारं ज्ञात्वा सूरिरपि । उपदिशति तस्य मन्त्रं निरवद्यं पठितसिद्धं च ॥ ४७ ॥ कृष्ण चर्तुदशीरंजन्यामर्धरात्रे प्रेतवनमध्ये । कायोत्सर्गेण स्थितः स्मरेस्त्वमिमं मन्त्रम् || ४८ ॥ ततः प्रत्यक्षो भविष्यति कपर्दियक्षो मुहूर्तमात्रेण । मणिष्यति स तब संमुखमभिरुचितं मार्गय वरमिति ॥४९॥ ततस्त्वया स एवमेवं वक्तव्य इति भणित्वा । सूरिरपि विहारेणान्यत्र गतस्ततः श्रेष्ठी ॥ ५० ॥ भणितदिवसे प्राप्तः श्मशान भूमौ कथितविधिपूर्वम् । कायोत्सर्गे स्थितस्ततः पूर्वोक्तं समग्रमपि ॥ ५१ ॥ तथा जातं यथा भणितं यक्षाभिमुखं भणति ततः श्रेष्ठी । चतुर्मासदिने पूजा या विहिता चतुर्मालेन मया ॥५२॥ तस्याः फलेन प्रसादं कुरुष्व त्वमस्ति तव यदि शक्तिः । इति श्रुत्वा स यक्ष उपयोगं ददात्यवधेः ।,५३॥ उल्लपितं ततस्तेन तस्याः फलं वितरीतुमशक्तोऽहम् । यस्माज्जिनस्य पूजयैकया भावविहितया ॥ ५४ ॥ स्वर्गश्रीरपि हि लभ्यतेऽतिविस्तीर्णा मम च सा नास्ति । व्यन्तरजातीयोऽहं तस्मादन्यद्भण त्वं किमपि ॥ ५५ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org