________________
५०६
सुपासनाह-चरिअम्मिअन्नेवि एवमाई जीवियधणवंधुनासणसमत्था । जीवाण अदूरत्था उवदवा संति सयकालं ॥१००।। ताणत्थदंडविरई मा बंधव ! अइयरेसु अइदुलहं । पिच्चभवे परमसुहं जइ महसि तुमंति किं बहुणा ।। इय सुणिउं सो जंपइ जइ हं एवंविहं उवइसेमि । नो नरवइणो ता मह अपसाओ हवइ नियमण।।१०२॥ भरियघडस्सव नीरं वाहि लोट्टंति तुज्झ उवएसा । तो विमलेणं मोणं पडिवन्नं तस्स विसम्मि।।१०३॥ तो सो विवन्नविरई विगयरई जिगमयम्मि संजाओ। अइघणअणत्थदंडं कुणइ तहा कारवेई य ।।१०४॥ अह अन्नया कयाई निरत्थयं कोवि बहुं कयत्थेउं । मुक्को दव्वं गहिउं तेण पउटेण सो एसो ॥१०५॥ अहिमरपओगपुव्वं पंचत्तं पाविओ अकयधम्मो । पढमपुढवीए पत्तो तत्तो उव्वट्टिओ संतो ॥१०६॥ भमिऊग भवे कइवि हु सुतिक्खदुक्खाइं अणुहवेऊण। सिज्झिस्सइ धुयकम्मो पावियचरणो समाहीए। विमलो पुण विमलमई अक्खलियं पालिऊण गिहिधम्म । विहिणाराहिवि परलोयमग्गमह सो गओ सग्ग।। ता जह एवं विमलेण पालियं निरईयारवयमेयं । तह अन्नेहिवि भव्वेहि पालेयव्वं सयाकालं ॥१०९॥
॥ इति तृतीयाणुव्रतपरिपालने विमलदृष्टान्तः समाप्तः ॥
आयतां यातां तथा च स्वपतां भुजानानाम् । जन्तूनां पश्यति च्छलं मरणमहाराक्षसो रौद्रः ॥९९॥ अन्येऽप्येवमादयो जीवितधनबन्धुनाशनसमर्थाः । जीवानामदूरस्था उपद्रवाः सन्ति सदाकालम् ॥१०॥ तस्मादनर्थदण्डविरति मा बान्धव ! अतिचरातिदुर्लभाम् । प्रेत्यभवे परमसुखं यदि काससि त्वमिति किं बहुना ? इति श्रुत्वा स जल्पति यद्यहमेवंविधमुपदिशामि । नो नरपतये तदा ममाप्रसादो भवति नियमेन ॥१०२॥ भृतघटस्येव नीरं बहिर्लोठयान्त तवोपदेशाः । ततो विमलेन मौनं प्रतिपन्नं तस्य विषये ॥१०॥ ततः स विपन्नविरतिर्विगतरतिजिनमते संजातः । अतिघनानर्थदण्डं करोति तथा कारयति च ॥ १०४ ॥ अथान्यदा कदाचिन्निरर्थकं कोऽपि बहु कदयित्वा । मुक्तो द्रव्यं गृहीत्वा तेन प्रक्रुष्टेन स एषः ।। १०५॥ अभिमरप्रयोगपूर्व पञ्चत्वं प्रापितोऽकृतधर्मः । प्रथमपृथिव्यां प्राप्तस्तत उद्वृत्तः सन् ॥ १०६ ॥ भ्रमित्वा भवे कत्यपि हि सुतीक्ष्णदुःखान्यनुभूय । सेत्स्यति धुतकर्मा प्राप्तचरणः समाधिना ॥ १०७ ॥ विमलः पुनर्विमलमतिरस्खलितं पालयित्वा गृहिधर्मम् । विधिनाऽऽराध्य परलोकमार्गमथ स गतः स्वर्गम् ॥ तस्माद् यथैवं विमलेन पालितं निरतिचारव्रतमेतत् । तथान्यैरपि भव्यैः पालयितव्यं सदाकालम् ॥१०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org