________________
विजयराज्ये । श्रीमद्वृहद्गच्छे । मड्डाहडीयभट्टारकश्रीहरिभद्रसूरिपरिवारभूषण पं० भावचंद्रस्य शिष्यलेशेन । मुनि । हीराणंदेन लिलिखिरे । नंदे मुनौ युगे चंद्रे ज्येष्ठमासे सिते दले । दशम्यां लेखयामास शुभाय ग्रंथपुस्तकं ॥ १ ॥ नंदमुनिवेदचंद्रे वर्षे श्रीविक्रमस्य ज्येष्ठाशते । अलिखत् सुपार्श्वचरित हीराणंदो मुनींद्रोयं ॥ २ ॥ जाव य सग्ग सुरिंदो कणयगिरिंदो धराय धरणिंदो । चंदो तह य दिणिंदो तारगणो जाव गयण मि ॥३॥ गलगजि जलनिहिणो अ जिणधम्मो तिलोय विप्फुरइ । ता जिणसुपासचरिओ पढिज्जमाणो उ चिर होउ ।। होणाहिय जं किंचिवि वंजण मत्ताय अक्खर पयं व । लिहियं अयाणमाण मिच्छा मे दुक्कडं तस्स ॥५॥ इति श्रीसुपार्श्वजिनचरित्रे गाथा ८६६८ लिखिता ॥ छ ॥ श्रीः' ॥"
एतत् पुस्तकत्रयमवलम्ब्य विहिते ग्रन्थस्यास्योपयुक्तपाठभेदसहिते छायानुवादविभूपिते संपादने दत्तशुद्धिपत्रेऽपि याः काश्चन मतिमान्यप्रभवाः स्खलनाः स्थिता भवेयुः, सदयाः सहृदयास्ताः क्षमन्तामिति सानुनयं प्रार्थयमानो विरमामि ।
हरगोविन्दः ।
१ इतः परमेतत्पुस्तकस्वामिनो गुर्वादिव्यावर्णनपरं श्लोकसप्तकं वर्तते, तच्चाधुनिकत्वेनानुपयोगित्वादनावश्यकमत्रोल्लेखितुमित्युपेक्षितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org