________________
( २१ )
अबहरिसरणयाणं कणिट्ठभाया तहेव जसराओ। साहेज्जकरो उच्छाहम्म (स्स) य जाओ रि (वि) सेसेण ॥ विकमका लाओ एवाससहस्से सए (य) सावणओ ( ? ताणत्रए ) | daarata (? वदि) सव्वादिणम्मि एयं परिसमत्तं ॥ ९१ ॥ | "
येषां द्वाराऽस्य ग्रन्थस्य निम्नोल्लिखितान्यादर्शपुस्तकानि मयाऽऽसादितानि यैश्च निजोपदेशद्वारामुद्रणार्थमर्थसाहाय्यं विहितम्, तेषामनवद्यवैदुष्यमाविभ्रतामहर्निशं परोपकारतमुद्वहतां प्रातः स्मरणीयमुनि राजश्रीराज विजयानामहमत्रातीव कृतज्ञोऽस्मि | आदर्शपुस्तकानि चेमानि -
क -- प्रातःस्मरणीय प्रवर्तक श्रीकान्तिविजयानां संबन्धि, १९८ पत्रात्मकम्, माचीनं, शुद्धप्रायम्, लेखनसमयोल्लेखविरहितम् ।
ख - - प्रातः स्मणीय शुनिराजश्रीराजविजयानाम्, १८२ पत्रात्मकं, प्राचीनं, नातिशुद्धम्, लेखनसमयोल्लेखवर्जितम् ।
ग - प्रातःस्मरणीय - प्रवर्तक श्रीकान्तिविजयानाम्, १९६ पत्रात्मकं नवीनं, नात्यशुद्धम्, प्रान्ते चैतदुल्लेखविभूषितम्
“ कृतिरियं मलधारिगच्छतिलक श्री हेमसूरिशिष्येन लखमणगणिना || || संवत् १४८० वर्षे शाके १३४५ प्रवर्तमाने ज्येष्ठवदि १० शुक्रे । बवकरणे मेदपाटदेशे । देवकुलपाटके । राजाधिराजराणामोकल
श्राम्रहरिशरणकानां कनिष्ठभ्राता तथैव यशोराजः । साहाय्यकर उत्साहस्य च जातो विशेषेण ॥६०॥ विक्रमकालादेकवर्षसहस्रे शते च त्रिनवते । तपोनन्तरवदिशर्वदिन एतत् परिसमाप्तम् ॥ ६१ ॥
१ अध्यापकपिटरसन्संबन्धिन पत्तनभाण्डागारीयसूची पुस्तके 'वीस' इति पाठः, यमुपजीव्य तेन सर्वत्र ( Fourth report text page 7, fifth report Pages 43 and 74 ) एतस्य मुनिसुव्रत स्वाभिचरितस्य निर्माणकाला विक्रमात् १९२१ वर्षे निर्दिष्टः सोऽयुक्तः, अस्य हस्तादर्शपुस्तके 'वास' इति पाठस्य स्पष्टं दर्शनात् भवभावना - विशेषावश्यकवृत्योरनुक्रमं विक्रमात् १९७० तमे वर्षे १९७५ तमे संवत्सरे च निमिंतयोरत्र कृतस्योल्लेखस्यानुपपत्तेः (द्रष्टव्यमत्रैव ४२ - ४५ गाथयोरधोवर्ति टिप्पनम् ), जैनग्रन्थावल्यामपि प्रकृतग्रन्थस्य १९९३ तमे वर्षे निर्माणस्योपदर्शितत्वाच्च ( द्रष्टव्यं पृष्ठ २४२ )
२ तपाः = मात्रमासः (अ० चि०२, ६७ ) तदनन्तरः फाल्गुनस्तस्य शर्वदिने महेश्वर दिवसे एकादश्यामित्यर्थः ।
·
३ एष उल्लेख यदादर्शपुस्तकमुपजीव्यैतत् पुस्तकं लिखितं तत्रस्थ एवं विभाव्यते, अन्यथा प्रस्तुपुस्तकस्य नवीनत्वेन घटनात |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org