________________
अस्य ग्रन्थस्य विनिर्माता लदमणगणिविक्रमीयद्वादशशताब्यां लब्धसत्ताकः, विशेषतो गूर्जरदेशे कृतविहारश्चेति प्रस्तुतग्रन्थप्रशस्तावेव विनिर्दिष्टेन धंधुक्कयनगरे ग्रन्थस्य प्रारम्भेण, मएमलीपुर्या विक्रमात् ११९९ तमे वर्षे कुमारपाल-राज्ये समापनेन च व्यक्तमेव प्रतीयते । स्वगुरुपरम्परासंबन्धे च ग्रन्थकृता कृत उल्लेखो वंशक्षाकारेणैवं परिणमति;
जयसिंहमूरिः
अभयदेवसूरिः
हेमचन्द्रमूरिः
विजयसिंहमूरिः श्रीचन्द्रसूरिः . विबुधचन्द्रसूरिः लक्ष्मणगणिः अस्यैवात्र संक्षेपतः समुपदर्शितस्य गुरुपारम्पर्यस्य, तत्रापि विशेषेणाऽभयदेवसूरि-हेमचन्द्रसूर्योवृत्तान्तः प्रस्तुतग्रन्थकारसब्रह्मचारिणा श्रीचन्द्रमरिणा स्वकीयस्य मुनिसुव्रतस्वामिचरितस्य प्रशस्तौ किश्चिद्विस्तरतः प्रतिपादितः। तस्य च भैक्त्याद्यावेशरहितताया ग्रन्थकृता प्रतिज्ञातत्वेनातिशयोक्त्याद्यालंकारिकभावामिश्रितत्वादैतिहासिकदृष्टया महोपयोगितामवधारयन्नत्र सच्छायमुल्लेखमुचित
मुत्पश्यामि;--
"तैस्स अपच्छिपतित्थाहिवस्स तित्थे पयट्टमाणम्मि । सिरिपएहवाहणकुले गच्छे हरिसन परतव (?रतणय)म्मि ॥ ७२. ।। सिरिजयसिंहो सूरी सयंजरीमंडलम्मि सुपसिद्धो।
पंचविहायारसमायरणरओ गुणणिही जाओ ॥७३॥ तस्यापश्चिमतीर्थाधिपस्य तीर्थे प्रवर्तमाने । श्रीप्रश्नवाहनकुले गच्छे हर्षपुरीये ॥ ७२ ॥ श्रीजयसिंहसूरिः शाकम्भरीमण्डले सुप्रसिद्धः । पञ्चविधाचारसमाचरणरतो गुणनिधिर्जातः ॥७३॥
१ संप्रति गूर्जरदेशे 'धंधुका' इति ख्यातम् । २ अधुना गुजरदेशे ‘माण्डल' इति नाम्ना प्रसिद्धम् । ३ द्रष्टव्याऽत्र (मुनि प्रशस्ती)एकत्रिंशदङ्का गाथा।
४ अस्याः प्रशस्तेः पुस्तकद्धयमुपलब्धम,--(१) अणहिलपुरपत्तनीयभाण्डागारस्थपुस्तकानां पञ्चमी सूची [ Fifth report of P. Peterson ] (२) प्रवर्तकश्रीकान्तिविजयैः कृपया प्रेषितं हस्तलिखितं पुस्तकम्, यत् तस्मिन्नेव पत्तने तैविक्रमीय १९६० तमे वर्षे लेखितम् । आदर्शद्वयमप्येतदत्यशुद्धम् , प्रायः समानपाटत्वात तुल्यस्थलोद्भवत्वाच्चैकस्मादेव मूलपुस्तकात कृतप्रतिलिपिकतयाऽनुमीयमानम्, इति यत्र यः शुद्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org