________________
मलयकेउकहा।
६१५ इच्चाइ जपमाणाण ताण मरो समग्गओ जाव । ता भणियं देवेणं सच्चमिणं जंपियं केहिं ॥११५॥ आवइसहस्सकसवट्टएसु धणियं कसिन्जमाणस्स । पुरिसस्स सुवन्नस्स व माहप्पं पायर्ड होइ ॥११६॥ सचिवसहिएण तत्तो विहिणा पारित्तु पोसहं रना । भणिओ अमरो पडिवज संपयं दसणं सुद्धं ॥११७॥ तेणवि तहत्ति विहियं तुट्टो देवो पयंपए एवं । गिण्ह इमं मणिकुंडलजुयलं तो भणइ नरनाहो ॥११८॥ किं कजं एएणं तुम्ह पसाएण मह घरे नत्थि । संखावि हु एयाणं तो देवो भणइ नरनाहं ॥११९॥ एयस्स पभावेणं पभवंति न देवदाणवा खुद्दा । दृरेणं पुण मणुया नववेरसमच्छरमणावि ॥१२०॥ इच्चाइ भणेऊणं सो देवो देवलोयमणुपत्तो । रायावि हु आवस्सयविहिपुव्वं पूइऊण जिणं ॥१२१॥ तं मणिकुंडलजुयलं परिहेउं निवसई य अत्थाणे । सामंतमंतिसहिओ तो विम्हइओ जणो भणइ ॥१२२॥ सुरगिरिकडणिपरिट्ठियचंदाइच्चाण सिरिमणुहरंति । सवणेसु कुंडलाइं पहुणो सिरिमलयकेउस्स ॥ इच्चाइ जंपमाणो जा लोओ चिट्ठए निवसयासे । ता अहिमरेण केणवि छलेण रन्नो कओ घाओ ॥ मणिकुंडलाणुभावा सत्थं नो पहवियं नरिंदस्स । तो सो घायगपुरिसो गहिओ संनिहियसुहडेहिं ॥१२५॥ पुट्ठो अभयं रन्ना केण तुमं पेसिओ महवहत्थं ? । तेणवि सच्चं कहियं सव्वं रत्नावि तो मुक्को ॥१२६॥ तो मंति भणइ निवो सुरसाहिजेण जीवियं पत्तं । अकयधम्मस्स इहरा मरणं समुवट्टियं हुंतं ॥१२७॥ ता पुन्वपुरिसमग्गं अणुसरिमो संपयंपि कुमरस्स । अरिसीहस्स विहेउं रज्जभिसेयं तओ मंती ॥१२८॥
त्वत्साहाय्यवशेन निजचित्तप्रसन्नतानुभावेन । अन्यथा बहुभवेष्वपि यथा कथमपि हि संक्षपयेयमहम् ॥११४॥ इत्यादि जल्पतोस्तयोः सूरः समुद्गतो यावत् । तावद् भणितं देवेन सत्यमिदं जल्पितं कैः ॥११॥ आपत्सहस्रकषपट्टेषु गाढं कष्यमाणस्य । पुरुषस्य सुवर्णस्येव माहात्म्यं प्रकटं भवति ॥११६॥ सचिवसहितेन ततो विधिना पारयित्वा पौषधं राज्ञा । भणितोऽमरः प्रतिपद्यस्व सांप्रतं दर्शनं शुद्धम् ॥११७॥ तेनापि तथेति विहितं तुष्टो देवः प्रजल्पत्येवम् । गृहाणेदं मणिकुण्डलयुगलं ततो भणति नरनाथः ॥११८॥ किं कार्यमेतेन तव प्रसादेन मम गृहे नास्ति । संख्यापि ह्येतेषां ततो देवो भणति नरनाथम् ॥११९॥ एतस्य प्रभावेण प्रभवन्ति न देवदानवाः क्षुद्राः । दूरेण पुनर्मनुजा नववैरसमत्सरमनसोऽपि ॥१२०॥ इत्यादि भणित्वा स देवो देवलोकमनुप्राप्तः । राजापि ह्यावश्यकविधिपूर्व पूजयित्वा जिनम् ॥१२१॥ तन्मणिकुण्डलयुगलं परिधाय निवसति चास्थाने । सामन्तमन्त्रिसहितस्ततो विस्मयितो जनो भणति ॥१२२॥ सुरगिरिकटिनीप्रतिष्ठितचन्द्रादित्ययोः श्रियमनुहरेते | श्रवणयोः कुण्डले प्रभोः श्रीमलयकेतोः ॥१२३॥ इत्यादि जल्पन्यावल्लोकस्तिष्ठति नृपसकाशे । तावदभिमरेण केनापि च्छलेन राज्ञे कृतो घातः ॥१२४॥ मणिकुण्डलानुभावाच्छस्त्रं नो प्रभूतं नरेन्द्रे । ततः स घातकपुरुषो गृहीतः संनिहितसुभटैः ॥१२॥ पृष्टोऽभयं राज्ञा केन त्वं प्रेषितो मद्वधार्थम् ? । तेनापि सत्यं कथितं सर्व राज्ञापि ततो मुक्तः ॥१२६॥ ततो मन्त्रिणं भणति नृपः सुरसाहाय्येन जीवितं प्राप्तम् । अकृतधर्मस्येतरथा मरणं समुपस्थितमभविष्यत् ॥ तस्मात्पूर्वपुरुषमार्गमनुसरामः सांप्रतमपि कुमारस्य । अरिसिंहस्य विधाय राज्याभिषेकं ततो मन्त्री ॥१२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org