________________
पायं सव्ववयाण सवित्थराणपि गहियनियमस्स । संखेवो जं कीरइ तं देसवगासियं भणियं ॥१॥ देसावगासिय जो करेइ सुद्धं खणे खणे पयओ । सो देवासुरमणुएहिं पूइओ होइ संखोव्य ॥२॥ तथाहि;बहुदलसुजुत्तवृत्ता पत्तसुरालयसिरी सुसदा य । विजयघंटव्व नयरी विजयपुरी नाम इह अस्थि ॥३॥ तत्यत्थि दंतिदतग्गभिन्नच उजलहिकूलपरिवलओ । नीसेसवियडपडिवक्खनयक्कमो विकमो राया॥४॥ तस्सत्थि पणइणी पणयवच्छला मलयमंजरी नाम | तिणयणहुयार संदड्ढमयणतरुमंजरिव्य वरा ॥५॥ ताणं च परुप्परपीइसंजुयाणं उवाइयसएहिं । परिसइओ य कहमवि संजाओ अन्नया पुत्तो ॥६॥ संखो नामेण असंखसंखपरिमुणियसयलमत्थत्यो । वियडारिवारविक्खेवपउणसंखो असंखगुणो ॥७॥ सो पउरमंतिसामंतकोडिभुहडेहि रिबुडे वियडे । अत्थाणम्मि निविट्ठस्स सामिणो विकमधणस्स ॥८॥ पणमित्तु पायपउमं जाव निमण्णो नियम्मि ठाणम्मि । उच्छंगिय पिउपाए संबाहइ विणयपुव्वं ता ॥९॥ कम्हावि अकम्हा किंपि कसिणगयणंगणा अवयरंतं । सव्वेवि उन्नयमुहा पिच्छति य चित्तजुयचित्ता॥ वामकरकलियखेडयफडप्फडाडोवडरियवर सुहडं । वरसुहडवियडपायडियभिउडितडखंडणपयंडं ॥११॥ खंडणपयंडकरमंडलग्गसंकमियसुद्दडपडिविबं । सुहडपडिबिंबफुडपाडणत्यतड्डवियभुयदंडं ॥१२॥ भुयदंडबद्धवरवीरवलयं नीसेसभुवणसोंडीरं । सोंडीरसुहडभिडणिकलंपडं सुहडवरमेगं ॥१३॥ तं पिच्छिय अच्चम्भुयभयरसकलिया परोप्परं सुहडा । पिच्छंति मुहाइं जाव ताव नियडीहूओ सुहडो।
प्रायः सर्वव्रतानां सविस्तराणामपि गृहीतनियमस्य । संक्षेपो यः क्रियते तद देशावकाशिकं भणितम् ॥१॥ देशावकाशिकं यः करोति शुद्धं क्षणे क्षणे प्रयतः । स देवासुरमनुजैः पूजितो भवति शङ्ख इव ॥२॥ बहुदलसुयुक्तवृत्ता प्राप्तसुरालयश्री: सुशब्दा च । विजयघण्टेव नगरी विजयपुरी नामेहास्ति ॥३॥ तत्रास्ति दन्तिदन्ताग्रभिन्नचतुर्जलधिकूलपरिवलयः । निःशेषविकटप्रतिपक्षनतक्रमो विक्रमो राजा ॥४॥ तस्यास्ति प्रणयिनी प्रणतवत्सला मलयमञ्जरी नाम । त्रिनयनहुताशसंदग्धमदनतरुभञ्जरीव वरा ॥५॥ तयोश्च परस्परप्रीतिसंयुतयोमपयाचितशतैः । परिसूचितश्च कथमपि संजातोऽन्यदा पुत्रः ॥६॥ शंखो नाम्ना परिज्ञातासांख्यसांख्यसकलशास्त्रार्थः । विकटारिवारविक्षेपप्रगुणसंख्योऽसंख्यगुणः ॥७॥ स प्रचुरमन्त्रिसामन्तकोटिसुभटैः परिवृते वितते । आस्थाने निविष्टस्य स्वामिनो विक्रमधनस्य ॥८॥ प्रणम्य पादपद्मं यावन्निषण्णो निजे स्थाने । उत्सज्य पितृपादौ संवाहयति विनयपूर्व तावत् ॥९॥ कस्मादप्यकस्मात्कमपि कृष्णगगनाङ्गणादवतरन्तम् । सर्वेऽप्युन्नतमुखाः पश्यन्ति च चित्रयुतचित्ताः ॥१०॥ वामकरकलितश्वेटकफडफडाटोपदीर्णवरसुभटम् । वरसुभटविकटप्रकटितभृकुटितटखण्डनप्रचण्डम् ॥११॥ खण्डनप्रचण्डकरभण्डलाग्रसंक्रान्तसुभटप्रतिबिम्बम् । सुभटप्रतिबिम्बस्फुटपाटनार्थततभुजदण्डम् ॥१२॥ भुजदण्डबद्धवरवीरवलयं निःशेषभुवनशौण्डीरम् । शौण्डीरसुभटभेदनैकलम्पटं सुभटवरमेकम् ॥१३॥ १ ख. °मनिवस्स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org