________________
अप्पडिलेहियठाणे ठाणाइ करेइ अणुवउत्तो जो । कयसामइओ सो सामलोव्व सोएइ कुगइगओ ॥१॥ तथाहि;चंपयजंधा कमलाणणा य उन्नयपओहरा नयरी । कंकिल्लिपल्लवकरा मलयपुरी आसि रमणिव्व ॥२॥ तत्थ निवो नयसारो सच्छो संगुणो य तहवि गयतासो । चउजलहिमेहलमहीमहिलाक्थयलहारोव्व ।। कुलधरसामलनामा वणिणो निवसंति तत्थ अइधणिणो । दोनिवि पत्तिय उत्ता अविउत्ता भमहिं सव्वत्थ ॥ अह पत्तम्मि वसंते संतेवि हु जो करेइणुवसंते । रइसुंदराभिहाणे उज्जाणे ते गया दोवि ॥५॥ कीलंति विविहकीलाहि सुहिकलत्तेहिं परिगया जाव । ता अकंदरवोहो समुटिओ पुवदिसिहुत्तं ॥६॥ किं किंति जपमाणा उत्तालगईए जाव गच्छंति । ता पिच्छंति पभूयं लोयं पिंडीकयं तत्थ ॥७॥ एगे भणति ओसहमन्ने कुव्वंति सिटिआईयं । केइ गुरुमुक्कपुक्का रुयंति कुटुंति हिथयाइं ॥८॥ तो पुट्ठो कोवि नरो कुलधरवणिणा किमित्थ बहुलोओ । अकंदपरो दीसइ, सो जंपइ संपयं एत्थ ॥ कीलत्थं संपत्तो पत्तरूपो धणेसवणितणओ । नामेण मलयचंदो इंदो इव अच्छराहिं समं ॥१०॥ नियमज्जाहिं समेओ कीलंतो काणणम्मि किण्हेण । सप्पेण सो दट्ठो तो वि लवइ एस इय लोओ ॥ अह उवयारं नाउं विज्जाहरविंदपरिगओ एगो । चारणसमणो पत्तो तत्थ तओ तेवि पिच्छंति ॥१२॥ कहियं सेहिस्स तओ तेहिं जहा एस मुणिवरो सव्वं । जाणइ विज्जासिद्धो गयणे अवि भमइ सच्छंदं ।। तुह तणयं जीवावइ एसो अब्भस्थिओ इह लहुँपि । गंतूण भणसु एयं करुणा गुरुसायरं साहुं ॥१४॥
अप्रतिलेखितस्थाने स्थानादि करोत्यनुपयुक्तो यः । कृतसामायिकः स श्यामल इव शोचति कुगतिगतः ॥१॥ चम्पकजङ्घा कमलका( ला )ननोन्नतपयोधरा नगरी । कङ्केलिपल्लवकरा मलयपुर्यासीद् रमणीव ।।२।। तत्र नृपो नयसारः स्वच्छः सगुणश्च तथापि गतत्रासः । चतुर्जलधिमेखलामहीमहिलावक्षस्तलहार इव ॥३॥ कुलधरश्यामलनामानों वणिजौ निवसतस्तत्रातिधनिनौ । द्वावपि पत्तियुक्ताववियुक्तौ भ्रमतः सर्वत्र ॥४॥ अथ प्राप्ते वसन्ते शान्तानपि खलु यः करोत्यनुपशान्तान् । रतिसुन्दराभिधान उद्याने तो गतौ द्वावपि ॥५॥ क्रीडतो विविधक्रीडाभिः सुहृत्कलत्रैः परिगतो यावत् । तावदाक्रन्दरवौधः समुत्थितः पूर्व दिगभिमुखम् ॥६॥ किं किमिति जल्पन्तावुत्तालगत्या यावद् गच्छतः । तावत्पश्यतः प्रभूतं लोकं पिण्डीकृतं तत्र ॥७॥ एके भणन्त्यौषधमन्ये कुर्वन्ति शिष्ट्यादिकम् । केचिन्मुक्तगुरुपूत्कारा रुदन्ति कुट्टयन्ति हृदयानि ॥८॥ ततः पृष्टः कोऽपि नरो कुलधरवणिजा किमत्र बहुलोकः । आक्रन्दपरो दृश्यते, स जल्पति सांप्रतमत्र ॥९॥ क्रीडाथ संप्राप्तः प्राप्तरूपो धनेशवणिक्तनयः । नाम्ना मलयचन्द्र इन्द्र इवाप्सरोभिः समम् ॥१०॥ निजभार्याभिः समेतः क्रीडन् कानने कृष्णेन । सर्पेण स दष्टस्ततो विलपत्येष इति लोकः ॥११॥ अथोपकारं ज्ञात्वा विद्याधरवृन्दपरिगत एकः । चारणश्रमणः प्राप्तस्तत्र ततस्तेऽपि पश्यन्ति ॥१२॥ कथितं श्रेष्ठिनस्ततस्तैयथैष मुनिवरः सर्वम् । जानाति विद्यासिद्धो गगनेऽपि भ्रमति स्वच्छन्दम् ॥१३॥ तव तनयं जीवयत्येषोऽभ्यर्थित इह लध्वपि । गत्वा भणैनं करुणागुरुसागरं साधुम् ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org