________________
केवलत्थावां ।
८६
मज्झवि तं नमणिज्जं तित्थं लोयाण इय निदसंतो । कयकिचोवि हु भयवं 'नमोत्थु तित्थस्स' इय भणइ ॥ ८८ ॥ अह समवसरण सीहासणं सरुवखं पयाहिणीकाउं । पुच्वाभिमुो भयवं उवविसह तिलोयहियकारी ॥ ८९ ॥ अन्नाइवि पिडिरूवगाई तिन्नेव तिसुविदिसासु । ठाविंति सुरा सीहासणम्मि अक लियपहावाणि ।। ९० ।। ताई च तप्पभावेण तयणुरूवाई चैत्र सोर्हति । अह चउरूवो जाओ एगोवि सुपासजिणनाहो ||११|| तं च नमिऊण देवा केवि हु गायंति केवि नञ्चति । फोर्डिति केवि तिवई कुणंति तह संथवं केवि ॥ ९२ ॥ | जिणवरपयपउमोवरि अमंदमयरंदबिंदुसंवलियं । मुंचति केवि देवा पणवन्नं जलरुहसमूह ||९३ || चेलंचलेहि वीयंति केवि केवि हु कुणति भत्तीए । उब्भियभुयदंडा चंडतंडवाडंवरं पुरओ ॥ ९४ ॥ रंभापमुहाओ विलासिणीओ संगीयकरणनिउणाओ । पयडियभावाभिणयं हरिसियहिययाओ नचेति ॥ ९५ ॥ एत्थंतरम्मि सिरिकलियमउडमणिकिरणकविसियदसासा। सब्वे सुरासुरिंदा तिपयाहिणपुव्वगं नमिउं । ९६ । नियनिय समुचियठाणेसु संनिसन्ना, सहस्सनयणेण । एत्यंतरे निसिद्धो सुरयणकोलाहलो सहसा ॥९७॥ भयकंपि दणमालामऊहसलिलेण धोइयाइव्व । विमलाए एगाइवि अणेगजणसंसयहराए ||१८|| सुरनर तिरिक्खसाहारणाए जलवाहगज्जिगहिराए । संसारदुक्खसंतत्तसत्तसंता हरिणी ॥ ९९ ॥ जोयणमित्तपडिफलणपच्चलाए गिराए महुराए । अह परिसाए सुपासो साहे धम्ममारो || १०० ॥ एत्थंतरम्म वणपालिया अच्चभूयं भुवणगुरुणो । रिद्धिं पलोइऊणं ससंभमं विम्हियमणाए || १०१ ॥
प्रणम्यमानः सादरनर किन्नर खचरसुरसमूहैः । सुरपतिदर्शितमार्गः पूर्वद्वारेण प्रविशति ॥८७॥ ममापि तन्नमनीयं तीर्थं लोकानामिति निदर्शयन् । कृतकृत्योऽपि हि भगवान् 'नमोऽस्तु तीर्थाय ' इति भणति ॥ ८८ ॥ अथ समवसरणसिंहासनं सवृक्षं प्रदक्षिणीकृत्य । पूर्वाभिमुखो भगवानुपविशति त्रिलोकी हितकारी ॥ ८९ ॥ अन्यान्यपि जिनप्रतिरूपकाणि त्रीण्येव तिसृष्वपि दिक्षु । स्थापयन्ति सुराः सिंहासनेऽक लितप्रभावाणि ॥ ९० ॥ तानि च तत्प्रभावेण तदनुरूपाण्येव शोभन्ते । अथ चतूरूपो जात एकोऽपि सुपार्श्वजिननाथः ॥ ९१ ॥ तं च नत्वा देवाः केऽपि खलु गायन्ति केऽपि नृत्यन्ति । स्फोटयन्ति केऽपि त्रिपदीं कुर्वन्ति तथा संस्तवं केऽपि ॥९२॥ जिनपरपादपद्मोपर्यमन्दमकरन्दबिन्दुसंवलितम् । मुञ्चन्ति केsपि देवाः पञ्चवर्णं जलरुहसमूहम् ॥९३॥ चेलाञ्चलैव जयन्ति केsपि केऽपि हि कुर्वन्ति भक्त्या । ऊवितभुजदण्डाश्चण्डताण्डवाडम्बरं पुरतः ॥ ९४ ॥ रम्भाप्रमुखा विलासिन्यः संगीतकरणनिपुणाः । प्रकटितभावाभिनयं हर्षितहृदया नृत्यन्ति ॥ ९५ ॥ अत्रान्तरे श्रीकलितमुकुटमणिकिरणकपिशितदशाशाः । सर्वे सुरासुरेन्द्रास्त्रिप्रदक्षिणापूर्वकं नत्वा ॥ ९६ ॥ निजनिजसमुचितस्थानेषु संनिषण्णाः, सहसूनयनेन । अत्रान्तरे निषिद्धः सुरजनकोलाहलः सहसा ||९७॥ भगवानपि दशनमालामयूखसलिलेन धौतयेव । विमलयैकयाप्यनेकजन संशयहरया ॥९८॥ सुरनरतिर्यक्साधारणया जलवाह गर्जिगभीरया । संसारदुःखसंतप्तसत्त्वसंतापहारिण्या ॥९९॥ योजनमात्रप्रतिफलनप्रत्यलया गिरा मधुरया । अथ पर्षदि सुपार्श्वः कथयितुं धर्ममारब्धः ॥ १०० ॥ अत्रान्तरे वनपालिकयाsत्यद्भुतां भुवनगुरोः । ऋद्धिं प्रलोक्य ससंभ्रमं विस्मितमनसा ॥ १०१ ॥
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org