________________
सुपासनाह चरिअम्मि----
तत्तो पढो कप्पोववण्णदेवेहिं रयणपायारो । निम्मविओ जो रेहइ रोहणगिरितुंगसिंगसमो ||७३ || दुइओ जोइसिएहि वरकणयमओ विउव्विओ झत्ति । जो सुरगिरिव्व रेहइ समागओ जिणसिरिं दट्टं ॥७४॥ तइओ भवणवहिं कलहोयमओ विणिम्मिओ सालो । जो चंदकुंदधवलो तुहिणायल लीलमुव्वहई || ७५ ॥ raft for सामी चविसंघस्त चउविहं धम्मं । साहिस्सइ इय तेहिं कयाई चत्तारि दाराई ॥ ७६ ॥ तह चसुवि दारेसुं फालिहसोवाणमालकलियाओ । वावीओ रइयाओ विसट्टकंदोवंदाओ ||७७ || तह विहियाई वणाई चंपयपुन्नायनायविडवीणं । पवणुव्वल्लिरपल्लवकरसण्णियसयललोयाई ॥७८॥ सीहासणं च मज्झे ममयं निम्मियं अइविसालं । उदयायलसिहरं पिवतिहुयण र विसंगमीतं ॥ ७९ ॥ तह उवरि वारसगुणोपवणुव्विलंत गुच्छसंछन्नो । कोमलकिसलयकलिओ असोयवरपायवो रइओ ||८०|| एसो तिगुत्तिगुत्तो निज्जियदंडत्तओ तिकालविऊ । तिहुयणगुरुत्ति रइयं विमलं छत्तत्तयं उवरि ॥८१॥ गोच्चि जिणनाहो पोओ भवसायरम्मि इइ कहिउं । धरणीए अंगुली विय समुब्भिया धम्मधयमिसओ॥८२॥ भामंडलं च पट्टीए निम्मियं रयणकिरणचिचंइयं । वरदुंदुही य तह तत्थ ताडिया सहरिससुरेहिं || ८३ || सादिविहुदवि पासेसु चंदकरधवलं । चालंति चामरजुयं तह बुट्टी हवइ कुसुमाण || ८४ ॥ पुरओवि धम्मचक्कं पइट्टियं घडियममलरयणेहिं । जं सेवागयतरणिव्व सहइ विजिउत्ति जयरविणा॥८५॥ त्यंतरे जिर्णो सुरविरइयकणयप उमपंतीए । ठावितो कमजुयलं थुन्वंतो चारणमणीहिं ॥ ८६ ॥ पणमिज्जंतो सायरन र किन्नर खयर सुरसमूहेहिं । सुरवइसियमग्गो पुग्वदुवारेण पविसे ||८७||
1
८५
ततः प्रथमः कल्पोपपन्नदेवै रत्नप्राकारः । निर्मापितो यो राजति रोहणगिरितुङ्गशृङ्गसमः ||७३ || द्वितीयो ज्योतिषिकैर्वरकनकमयो विकुर्वितो झटिति । यः सुरगिरिवि राजति समागतो जिनश्रियं द्रष्टुम् ॥ ७४ ॥ तृतीयो भवनपतिभिः कलधौतमयो विनिर्मितः शालः । यश्चन्द्रकुन्द्रधवलस्तुहिनाचललीलामुद्वहति ॥७५॥ एतस्मिन् स्थितः स्वामी चतुर्विवसंघस्य चतुर्विधं धर्मम् । कथयिष्यतीति तैः कृतानि चत्वारि द्वाराणि ॥७६॥ तथा चतुष्पद्वारेषु स्फाटिकसोपानमालाकलिताः । वाप्यो चिता विकसितनीलोत्पलवृन्दाः ॥७७॥ तथा विहितानि वनानि चम्पकपुन्नागनागविटपिनाम् । पवनोद्वेलनशील पल्लवकर संज्ञितसकललोकानि ॥७८॥ सिंहासनं च मध्ये हेममयं निर्मितमतिविशालम् । उदयाचलशिखरमिव त्रिभुवनरविसङ्गमीहमानम् ॥७९॥ तोपरि द्वादशगुणः पवनोद्वेल्लद्गुच्छसंछन्नः । कोमलकिशलय कलितोऽशोकवरपादपो रचितः ॥८०॥ एष त्रिगुप्तिगुप्तो निर्जितदण्डत्रयस्त्रिकालवित् । त्रिभुवनगुरुरिति रचितं विमलं छत्रत्रयमुपरि ॥ ८१ ॥ एक एव जिननाथः पोतो भवसागर इति कथयितुम् । धरण्याऽङ्गुलीव समूविता धर्मध्वजमिषतः ॥८२॥ भामण्डलं च पृष्ठे निर्मितं रत्नकिरणमण्डितम् । वरदुन्दुभिश्च तथा तत्र ताडिता सहर्षसुरैः ॥ ८३ ॥ शशानेन्द्रावपि हि द्वयोरपि पार्श्वयोश्चन्द्रकरधवलम् । चालयन्ति चामरयुगं तथा वृष्टिर्भवति कुसुमानाम् ॥ ८४ ॥ पुरतोऽपि धर्मचक्रं प्रतिष्ठितं घटितममलरत्नैः । यत् सेवागततरणिरिव राजते विजित इति जगद्रविणा ॥ ८५ ॥ अत्रान्तरे जिनेन्द्रः सुरविरचितकनकपद्मपङ्गौ । स्थापयन् क्रमयुगलं स्तूयमानश्चारणमुनिभिः ॥८६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org